This page has been fully proofread once and needs a second look.

जगन्नाथस्य प्राणप्रान्तः प्राणानामसूनां । 'पुंसि भूम्य्रसवः प्राणाः'
इत्यमरः । अन्तः समाप्तौ । अन्तःशब्दोऽधिकरणप्रधानमव्ययम् ।
प्राणोत्क्रमणसमय इत्यर्थः । वदनकमलान्तः वदनमेव कमल-
मिति मयूरव्यंसकादित्वात्समासः । वदनं कमलमिवेत्युपमित-
समासो वा । तस्यान्तर्मध्ये विलसतु शोभतु । खलु निश्चयेन ।
प्राणोत्क्रमणसमये गङ्गागङ्गेत्युच्चारणं भवतु । कफवातपित्तैः क-
ण्ठावरोधनं मास्त्विति भावः । तत् कियत् गङ्गेति पदं सकृदपि
एकवारमपि स्मृतं सत् चिन्तितं सत् स्वान्तं मनः शान्तं इन्द्रि-
यनिग्रहक्षमं द्वेषलोभादिरहितं वा विरचयति करोति । शान्तं
सुखयुक्तं वा । शान्तशब्दादर्शआद्याच् । 'शर्मशातसुखानि चे’-
त्यमरः । 'रच प्रतियत्ने' चुरादिः । पुनस्तत्किम् । यत्सकृदपि
प्रगीतं सत् प्रकर्षेण गीतं उच्चारितं सत् पापं च, पुनः भवतापं
भवस्य संसारस्य तापं च हरति नाशयति । पुनः किम् । श्रवण-
रमणीयं श्रवणयोः रमणीयं सुखजनकम् । 'कर्णशब्दग्रहौ श्रोत्रं
श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । यद्वा श्रवणाय श्रवणं कर्तुं
रमणीयं सुन्दरम् । 'चतुर्थी'ति योगविभागात्समासः । गङ्गा-
शब्दार्थस्तु गां पृथ्वीं स्वर्लोकादागता गङ्गा 'गनाम्यघो'-
रित्यौणादिको गन्प्रत्ययः । तदुक्तं ब्रह्माण्डपुराणे--'तिस्रो नद्यो
महापुण्या वेणा गोदा च जाह्नवी । गां हरीशाङ्घ्रिकात्प्राप्ता
गङ्गेतीह प्रकीर्तिते'ति । हरेः पादाच्छम्भोर्मस्तकाच्च गां प्राप्तेति
तदर्थः । यद्वा गम्यते सोपानभूतया यया स्वर्गः सा गङ्गा ।
तदुक्तमाचार्यै: 'स्वर्गसोपानसङ्गे’इति । यास्केनापि निरुक्ते गम-
नाद्गङ्गे'ति सामान्यत एवोक्तमिति दिक् ॥ ८ ॥