This page has been fully proofread once and needs a second look.

१२
 
गङ्गालहरी ।
 

 
जगन्नाथस्य प्राणप्रान्तः प्राणानामसूनां । 'पुंसि भूम्भ्र्यसवः प्राणाः'

इत्यमरः । अन्तः समाप्तौ । अन्तःशब्दोऽधिकरणप्रधानमव्ययम् ।

प्राणोत्क्रमणसमय इत्यर्थः । वदनकमलान्तः वदनमेव कमल-

मिति मयूरव्यंसकादित्वात्समासः । वदनं कमलमिवेत्युपमित-

समासो वा । तस्यान्तर्मध्ये विलसतु शोभतु । खलु निश्चयेन ।

प्राणोत्क्रमणसमये गङ्गागङ्गेत्युच्चारणं भवतु । कफवातपित्तैः क

ण्ठावरोधनं मास्त्विति भावः । तत् कियत् गङ्गेति पदं सकृदपि

एकवारमपि स्मृतं सत् चिन्तितं सत् स्वान्तं मनः शान्तं इन्द्रि-

यनिग्रहक्षमं द्वेषलोभादिरहितं वा विरचयति करोति । शान्तं

सुखयुक्तं वा । शान्तशब्दादर्शआद्याच् । 'शर्मशातसुखानि चे -

त्यमरः । 'रच प्रतियत्ने' चुरादिः । पुनस्तत्किम् । यत्सकृदपि

प्रगीतं सत् प्रकर्षेण गीतं उच्चारितं सत् पापं च, पुनः भवतापं

भवस्य संसारस्य तापं च हरति नाशयति । पुनः किम् । श्रवण-

रमणीयं श्रवणयोः रमणीयं सुखजनकम् । 'कर्णशब्द ग्रहोहौ श्रोत्रं

श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । यद्वा श्रवणाय श्रवणं कर्तुं

रमणीयं सुन्दरम् । 'चतुर्थी' ति योगविभागात्समासः । गङ्गा-

शब्दार्थस्तु गां पृथ्वीं स्वर्लोकादागता गङ्गा 'गनाम्यघो'-

रित्यौणादिको गन्प्रत्ययः । तदुक्तं ब्रह्माण्डपुराणे-'तिस्रो नद्यो

महापुण्या वेणा गोदा च जाह्नवी । गां हरीशाङ्गिघिकात्प्राप्ता

गङ्गेतीह प्रकीर्तिते'ति । हरेः पादाच्छम्भोर्मस्तकाच्च गां प्राप्तेति

तदर्थः । यद्वा गम्यते सोपानभूतया यया स्वर्गः सा गङ्गा ।

तदुक्तमाचार्यै: 'स्वर्गसोपानसङ्गे' इति । यास्केनापि निरुक्ते गम-

नाङ्गे' ति सामान्यत एवोक्तमिति दिक् ॥ ८ ॥
 
FOUNDED
1917
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute