This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
एव स्थित इत्यर्थः । एतादृशो मृगमद: कस्तूरी । 'मृगनाभिर्मृ-

गमदः कस्तूरी चे' त्यमरः । तव तोयैरम्भोभिः । 'सहरुयुक्ते' इति

तृतीया । 'अम्भोऽर्णस्तोयपानीय' मित्यमरः । यावद्यस्मिन्नेव

काले मिलति संबद्धो भवति तावत्तस्मिन्नेव काले मृगाः मृग-

यन्ति उदरपोषणाय तृणादिकमन्वेषयन्ति ते मृगाः हरिणाः ।

'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । विमलवपुषः

विमलं मलरहितं वपुर्येषां ते एतादृशाः सन्तो नन्दनवनं नन्द-

यतीति नन्दनम् । नन्द्यादित्वाल्लयुः । तच्च तद्वनं च इन्द्रोद्यानं

नन्दनवनम् । 'अस्योद्यान' मित्यमरः । स्वच्छन्दं यथा स्यात्तथा

विशन्ति । गच्छन्तीत्यर्थः । क्वचित्तु 'विमलमतय' इति पाठः ।

कथंभूता मृगाः । वैमानिकशतसहस्रैः विमानैश्चरन्ति गच्छ-

न्तीति वैमानिका देवाः । 'चरती' ति ठक् । तेषां शतानि

शतानां सहस्राणि तैः परिवृता वेष्टिताः ॥ ७ ॥
 

 
इदानीं मरणोच्चारणाभ्यां क्रमेण मनःशान्ति-पाप-संसार-

ताप-नाशजनकं गङ्गेति पदं मरणसमये मन्मुखेऽस्त्वित्याह

स्मृतं सद्यः स्वान्तं विरेचयति शान्तं सकृदपि

प्रगीतं यत्पापं झटिति भवतापं च हरति ।

इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं

मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ८

स्मृतमिति । भो भागीरथि, तत् गङ्गेति पदं सुबन्तं मम
 

 
१ सुखयति नितान्तं इति पाठः ।
 
FOUNDED
 
1917
 
॥ तेजस्वि
 
न्यवधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute