This page has been fully proofread once and needs a second look.

१०
 
गङ्गालहरी ।
 

 
चे' त्यमरः । श्रितवतां सेवतां सुधातः अमृतात् । पञ्चम्यन्ता-

तसिल् । स्वादीयः सलिलभरम् । अतिशयेन स्वादुः स्वादीयान् ।

अतिशायने ईयसुन् । स चासौ सलिलभश्च तं आतृप्ति तृप्ति

पर्यन्तम् । 'पञ्चम्यपाङ्परिभि' रिति समासः । पितां पानं

कुर्वताम् । पाधातोः शतरि 'पाघेघ्रे' ति पिवाबादेशः । एतादृशानांज-

नानामानन्दः निर्वाणपदवीं निर्वाणस्य कैवल्यस्य पदवीं मार्गम् ।

'मुक्तिः कैवल्य निर्वाण'मित्यमरः । परिहसति उपहसति ॥ ६ ॥

इदानीं साक्षात्स्वयं स्नानमकुर्वतामपि त्वयि अन्यसंबन्धि-

त्वेन स्वावयवपतने तेषामप्युत्तमलोकप्राप्तौ सांक्षात्स्नानिनां

किं वक्तव्यमित्याह-

प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी-

गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।

मृगास्ताव द्वैमानिकशतसहस्त्रैः परिवृता

विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ७

प्रभात इति । भो मातः । प्रभाते उपसि । 'प्रत्यूषोऽहर्मुखं

कल्यमुषःप्रत्युषसी अपि । प्रभातं चे' त्यमरः । स्नान्तीनामर्था-

त्तव जले स्नानं कुर्वतीनां नृपतिरमणीनां राजसुन्दरीणाम् । ब्रा-

ह्मणादिस्त्रीणां दारिद्र्यबाहुल्यान्मृगमदो न मिलतीत्युक्तं नृप-

तिरमणीनामिति । तासां तु संपत्तिबाहुल्यात्स सुलभ इति

भावः । कुचतटीगतः कुचानां तथ्यः प्रान्ताः तासु गतः

विद्यमानः । तटशब्दाजातिलक्षणो ङीपूप् । 'तटं त्रिषु' इति

कोशात् स्त्रियामपि तटशब्दः । रात्रौ रतिसमये
 
1917
 
लापितः अतः
 
Research Institute