2023-02-25 06:37:33 by ambuda-bot
This page has not been fully proofread.
१०
गङ्गालहरी ।
चे' त्यमरः । श्रितवतां सेवतां सुधातः अमृतात् । पञ्चम्यन्ता-
तसिल् । स्वादीयः सलिलभरम् । अतिशयेन स्वादुः स्वादीयान् ।
अतिशायने ईयसुन् । स चासौ सलिलभरच तं आतृप्ति तृप्ति
पर्यन्तम् । 'पञ्चम्यपाङ्परिभि' रिति समासः । पिवतां पानं
कुर्वताम् । पाधातोः शतरि 'पाघे' ति पिवादेशः । एतादृशानांज-
नानामानन्दः निर्वाणपदवीं निर्वाणस्य कैवल्यस्य पदवीं मार्गम् ।
'मुक्तिः कैवल्य निर्वाण'मित्यमरः । परिहसति उपहसति ॥ ६ ॥
इदानीं साक्षात्स्वयं स्नानमकुर्वतामपि त्वयि अन्यसंबन्धि-
त्वेन स्वावयवपतने तेषामप्युत्तमलोकप्राप्तौ सांक्षात्स्नानिनां
किं वक्तव्यमित्याह-
प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी-
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।
मृगास्ताव द्वैमानिकशतसहस्त्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ७
प्रभात इति । भो मातः । प्रभाते उपसि । 'प्रत्यूषोऽहर्मुखं
कल्यमुषःप्रत्युषसी अपि । प्रभातं चे' त्यमरः । स्नान्तीनामर्था-
त्तव जले स्नानं कुर्वतीनां नृपतिरमणीनां राजसुन्दरीणाम् । ब्रा-
ह्मणादिस्त्रीणां दारिद्र्यबाहुल्यान्मृगमदो न मिलतीत्युक्तं नृप-
तिरमणीनामिति । तासां तु संपत्तिबाहुल्यात्स सुलभ इति
भावः । कुचतटीगतः कुचानां तथ्यः प्रान्ताः तासु गतः
विद्यमानः । तटशब्दाजातिलक्षणो ङीपू । 'तटं त्रिषु' इति
कोशात् स्त्रियामपि तटशब्दः । रात्रौ रतिसमये
1917
लापितः अतः
Research Institute