This page has been fully proofread once and needs a second look.

इत्यमरः । हेरम्बस्य जननी माता पार्वती तस्याः कटाक्षाः
अपाङ्गदर्शनानि । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । स्फुटं च
तत्कपटं च व्याजं च । 'कपटोऽस्त्री व्याजे' त्यमरः । स्फुटकपटेन
हेरम्बजननीकटाक्षाः उदञ्जन् उदयं प्राप्नुवन् यो मार्तण्डः अर्कः ।
'विकर्तनार्कमार्तण्डे'त्यमरः । उदञ्चन्मार्तण्डवत् स्फुटकपटहेर-
म्बजननीकटाक्षाः । अतिरक्ता इत्यर्थः । तेषां व्याक्षेपः विलम्बः ।
चिरकालपर्यन्तं कटाक्षस्थितिरित्यर्थः । यद्वा व्याक्षेपः संबन्धः
तेन क्षणं क्षणपर्यन्तं जनित उत्पादितः तादृशः संक्षोभ-
निवहो भयसमूहो येषां ते । पुनः कथंभूताः । अतएव हरशि-
रसि स्वाधारभूते महादेवमस्तके त्वङ्गन्तः कम्पन्तः इतस्ततो
गच्छन्तो वा । 'त्वगि कम्पने' इत्यस्मात् 'उखउखी’ति दण्डके
पठितगमनार्थकत्वादुमयार्थकत्वम् । क्वचित्तु उदञ्चन्मात्सर्येति
पाठः । तत्र सापत्न्यभावादुदञ्चन्मात्सर्येणेति व्याख्येयम् ॥
 
इदानीं त्वदाश्रयान्मया सर्वे सुरास्तृणप्रायीकृताः, अधुना
यदि त्वं मे कार्यकरणे उदासीना भवसि तर्हि अहं केषामग्रे
रोदनं करोमीत्याह--
 
तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।
इदानीमौदास्यं भजसि यदि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४ ॥
 
तवेति । भो अम्ब जननि, 'अम्बार्थनद्यो'रिति ह्वस्व; ।
तवालम्बादाश्रयात् स्फुरदलघुगर्वेण स्फुरन्देदीप्यमानः अलघु-