This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
इत्यमरः । हेरम्बस्य जननी माता पार्वती तस्याः कटाक्षाः

अपाङ्गदर्शनानि । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । स्फुटं च

तत्कपटं च व्याजं च । 'कपटोऽस्त्री व्याजे' त्यमरः । स्फुटकपटेन

हेरम्बजननीकटाक्षाः उदश्चन् उदयं प्राप्नुवन् यो मार्तण्डः अर्कः ।

'विकर्तनार्कमार्तण्डे' त्यमरः । उदश्चन्मार्तण्डवत् स्फुटकपटहेर-
म्व

म्ब
जननीकटाक्षाः । अतिरक्ता इत्यर्थः । तेषां व्याक्षेपः विलम्बः ।

चिरकालपर्यन्तं कटाक्षस्थितिरित्यर्थः । यद्वा व्याक्षेपः संबन्धः

तेन क्षणं क्षणपर्यन्तं जनित उत्पादितः तादृशः संक्षोभ-

निवहो भयसमूहो येषां ते । पुनः कथंभूताः । अतएव हरशि-

रसि खाधारभूते महादेवमस्तके त्वङ्गन्तः कम्पन्तः इतस्ततो

गच्छन्तो वा । 'त्वगि कम्पने' इत्यसात् 'उखउखी ति दण्डके

पठितगमनार्थकत्वादुमयार्थकत्वम् । क्वचित्तु उदञ्चन्मात्सर्येति

पाठः । तत्र सापत्न्यभावादुदञ्चन्मात्सर्येणेति व्याख्येयम् ॥३॥
 

 
इदानीं त्वदाश्रयान्मया सर्वे सुरास्तृणप्रायीकृताः, अधुना

यदि त्वं मे कार्यकरणे उदासीना भवसि तर्हि अहं केषामग्रे

रोदनं करोमीत्याह-

तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा

मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।

इदानीमौदास्यं भजसि यदि भागीरथि तदा

निराधारो हा रोदिमि कथय केषामिह पुरः ४

तवेति । भो अम्ब जननि, 'अम्बार्थनद्यो' रिति हस्खेः ।
ख; ।
तवालम्बादाश्रयात् स्फुरदलघुगर्वेण स्फुरन्देदीप्यमानः
 
POONA
 
अलघु-
FOUNDED
1917
 
नावधीत
 
Bhandarkar Oriental
Research Institute