This page has been fully proofread once and needs a second look.

दलनं छेदनं द्रागाविद्याद्रुमदलनं तस्य दीक्षा उपदेशः तस्याः
गुरुः बोधकः । अत्रापि दृष्टिसरणिं सकृदपि गतः सन्निति यो-
जनीयम् । सकृत्प्रवाहदर्शनेनाविद्या गच्छतीति भावः । 'द्रा-
गाविद्यद्रुमे'ति वा पाठः । अत्राऽविद्यायाः इमे आविद्याः ते
च ते द्रुमाश्च । शेषं पूर्ववत् ॥ २ ॥
 
इदानीं तरङ्गरूपत्वेन जलं वर्णयन्नाशिषं प्रयुञ्जते--
 
[^१]उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-
कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।
भवन्तु त्वङ्गन्तो हरशिरसि [^२]गङ्गातनुभुव-
स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३ ॥
 
उदञ्चदिति । गङ्गातनुभुवः गङ्गायास्तनुः मूर्तिः । 'स्त्रियां
मूर्तिस्तनुस्तन्'रित्यमरः । तस्याः भवन्ति ते गङ्गातनुभुवः । भ-
वतेः क्किप् 'न भूसुधियो'रिति यण्निषेधादुवङ् । प्रोत्तु्ङ्गाः
उन्नताः एतादृशास्तरङ्गा ऊर्मयः । 'भङ्गस्तरङ्ग ऊर्मिर्वे'त्यमरः ।
भवतां भक्तजनानां दुरितभयभङ्गाय दुरितं च भयं च तयोर्भङ्गाय
नाशाय । 'क्रियार्थोपपदे'ति चतुर्थी । भवन्तु । आशिषि लोट् ।
कथंभूतास्तरङ्गाः । उदञ्जन्मार्तण्डस्फुटकपटहेरम्बजननीकटाक्ष-
व्याक्षेपक्षणजनितसंक्षोभनिवहाः । हे शिवे रम्बते शब्दं करो-
तीति हेरम्बः लम्बोदरः । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु'
इति नानार्थमञ्जरी । 'अबि रबि शब्दे' पचाद्यच्। ’तत्पुरुषे
कृती'ति सप्तम्या अलुक् । 'अप्येकदन्तहेरम्बलम्बोदरगजाननाः'
----------------------------------
[^१] मात्सर्यस्फुट इति पाठः ।
[^२] गाङ्गाः पुनरमी इति पाठ: ।