This page has been fully proofread once and needs a second look.

की गङ्गालहरी ।
 

 
दलनं छेदनं द्रागाविद्याद्रुमदलनं तस्य दीक्षा उपदेशः तस्याः

गुरुः बोधकः । अत्रापि दृष्टिसरणिं सकृदपि गतः सन्निति यो-

जनीयम् । सकृत्प्रवाहदर्शनेनाविद्या गच्छतीति भावः । 'द्रा-

गाविद्यद्रुमे' ति वा पाठः । अत्राऽविद्यायाः इमे आविद्याः ते

च ते द्रुमाश्र । शेषं पूर्ववत् ॥ २ ॥
 

 
इदानीं तरङ्गरूपत्वेन जलं वर्णयन्नाशिषं प्रयुञ्जते -

उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-

कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।

भवन्तु त्वङ्गन्तो हरशिरसि गेङ्गातनुभुव-

स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ३

उदञ्चदिति । गङ्गातनुभुवः गङ्गायास्तनुः मूर्तिः । 'स्त्रियां

मूर्तिस्तनुस्तन्' रित्यमरः । तस्याः भवन्ति ते गङ्गातनुभुवः । भ

वतेः क्किप् 'न भूसुधियो' रिति यनिषेधादुवङ् । प्रोतुङ्गाः

उन्नताः एतादृशास्तरङ्गा ऊर्मयः । 'भङ्गस्तरङ्ग ऊर्मिर्वे' त्यमरः ।

भवतां भक्तजनानां दुरितभयभङ्गाय दुरितं च भयं च तयोर्भङ्गाय

नाशाय । 'क्रियार्थोपपदे' ति चतुर्थी । भवन्तु । आशिषि लोट् ।

कथंभूतास्तरङ्गाः । उदश्चन्मार्तण्डस्फुटकपटहेरम्बजननीकटाक्ष-

व्याक्षेपक्षणजनितसंक्षोभनिवहाः । हे शिवे रम्ते शब्दं करो-

तीति हेरम्बः लम्बोदरः । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु'

इति नानार्थमञ्जरी । 'अवि रविबि रबि शब्दे' पचाद्यच्। ’तत्पुरुष
'

कृती' ति सप्तम्या अलुक् । 'अप्येकदन्तहेरम्बलम्बोदरगजाननाः'
 

 
१ मात्सर्यस्फुट इति पाठः ।
 

 
२ गाङ्गाः पुनरमी इति पाठ:
 
1917
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Research Institute