This page has been fully proofread once and needs a second look.

मुखमितिवत्सलिलविशेषणम् । पु० सौदर्यं सम्यक्दरी हि-
माचलकन्दरं तत्र भवं सौदरं भवार्थेऽणू । सौदरमेव सौदर्य-
मिति चातुर्वर्ण्यादित्वात्ष्यञ् । आदौ हिमाचले प्रकाशित-
मिति भावः । अथवा सुधायाः सौदर्यं भ्रातृरूपम् 'सोदरा-
द्यत्'इति यः । अत्र दरस्मिमिति श्लोकषर्यन्तं शिखरिणीछन्दः ।
तल्लक्षणं तु 'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी'ति वृत्त-
रत्नाकरोक्तम् । 'शिखरिणी य्मौन्सौम्लौगृतुरुद्राः' इति पैङ्गलं
च बोध्यम् । ननु छन्दोन्तरं त्यक्त्वानेनैव छन्दसा किमिति वर्ण-
नमिति चेदत्रोच्यते–-शिखरिणीछन्दसि जलदेवताकयगण-
स्यादौ सत्त्वेन जलस्पर्शरूपाभिमतफलसिद्धिर्भविष्यतीत्याशयेन
अशोकवनिकान्यायेन वेति कृतधियो विदांकुर्वन्तु । तदुक्तम्--
'मो भूमिः श्रियमातनोति य जलं वृद्धी र वह्निर्मृतिं सो वायुः
परदेशदूरगमनं त व्योम शून्यं फलम् । जः सूर्यो रुजमादधाति
विपुलां भेन्दुर्यशो निर्मलं नो नाकः सुखमीप्सितं फलमिदं प्रा-
हुर्गणानां बुधाः' इति । किमपितन् इत्येकं पदं वा । किमपि
अनिर्वचनीयं मोक्षप्राप्तिरूपफलं तनोति विस्तारयतीति किमपि
तन् 'तनु विस्तारे' क्विप् । एतत्पक्षे कथंभूतं जलमिति योज्यम् ।
अत्र वाचकलुप्तोपमालंकारः । तदुक्तम् 'उपमा यत्र सादृश्य-
लक्ष्मीरुल्लसति द्वयोः' इति । समृद्धं सौभाग्यमिति आदौ रूपकं
च । रूपकोपमयोः संकरः ॥ १ ॥
 
इदानीं प्रवाहरूपत्वेन जलं वर्णयन्स्वाभिमतं प्रार्थयते--
 
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन्सकृदुपगतो दृष्टिसरणिम् ॥