This page has been fully proofread once and needs a second look.

सधनाया अपि पृथिव्याः गङ्गासलिलं विना न शोभेति, लोके-
ऽपि अतिचतुरायास्ताटङ्कनूपुराद्यलंकारसहिताया अपि प्रमदा-
याः कुङ्कुमकृष्णमणिभिर्विना न शोभा भवतीत्यापामरप्रसिद्धम् ।
पुनस्तत्किम् । यत् लीलाजनितजगतः लीलया विलासेन नतु
श्रमेण जनितान्युत्पादितानि जगन्ति चतुर्दश भुवनानि येन
सः तस्य खण्डपरशोः खण्डयति रिपून् हिनस्तीति खण्डः तादृशः
परशुः शस्त्रविशेषो यस्य भूतेशस्य । 'भूतेशः खण्डपरशु'रित्य-
मरः । महैश्वर्यं महच्च तदैश्वर्यं च महाविभूतिभूतम् । 'विभूति-
र्भूतिरैश्वर्य'मित्यमरः । 'सन्महदि'ति समासे 'आन्महतः'इत्यात्वे
वृद्धिः । गङ्गासलिलमात्रसहायेनेश्वरेण विलासादेव चतुर्दश-
भुवनानि कृतानीति भावः । लोकेऽपि कश्चन धने सहाये सति
लीलया ब्रह्मपुर्यादिकं निर्मातीति प्रसिद्धम् । पुनः तत्किम् ।
यत् श्रुतीनां श्रूयते धर्मो याभिस्ताः श्रुतयः चत्वारो वेदाः
'श्रुञजी'त्यादिना क्तिन् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः ।
तेषां सर्वस्वं सर्वं च तत्स्वं च सर्वस्वम् । इदमेव वेदानां धन-
मिति भावः । यद्वा सर्वं च तत्स्वं च आत्मा । इदं सलिलमेव
वेदानामात्मेति भावः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये
स्वोऽस्त्रियां धने' इत्यमरः । पुनस्तत्किम् । अथ यत्सुमनसां सु-
पर्वणाम् । 'सुपर्वाणः सुमनसः' इत्यमरः । मूर्तं सशरीरं सुकृतं
पुण्यम् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः ।
पु० यत्सुधासौन्दर्यं सुधेवामृतमिव सौन्दर्यं यस्य तत् । अति-
शुभ्रमित्यर्थः । मधुरास्वादचिरजीवित्वादितत्कार्यकारीति वा ।
यद्वा सुधासौदर्यमिति वा पाठः । सुघेति पृथक्पदम् । चन्द्रो