This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 

 
सधनाया अपि पृथिव्याः गङ्गासलिलं विना न शोभेति, लोके-

ऽपि अतिचतुरायास्ताटङ्कनूपुराद्यलंकारसहिताया अ.पि प्रमदा-

याः कुङ्कुमकृष्णमणिभिर्विना न शोभा भवतीत्यापामरप्रसिद्धम् ।

पुनस्तत्किम् । यत् लीलाजनितजगतः लीलया विलासेन नतु

श्रमेण जनितान्युत्पादितानि जगन्ति चतुर्दश भुवनानि येन

सः तस्य खण्डपरशोः खण्डयति रिपून् हिनस्तीति खण्डः तादृशः

परशुः शस्त्रविशेषो यस्य भूतेशस्य । 'भूतेशः खण्डपरशु' रित्य-

मरः । महैश्वर्यं महच्च तदैश्वर्यं च महाविभूतिभूतम् । 'विभूति-

र्भूतिरैश्वर्य' मित्यमरः । 'सन्महदि 'ति समासे 'आन्महतः' इत्यात्वे

वृद्धिः । गङ्गासलिलमात्रसहायेनेश्वरेण विलासादेव चतुर्दश-

भुवनानि कृतानीति भावः । लोकेऽपि कश्चन धने सहाये सति

लीलया ब्रह्मपुर्यादिकं निर्मातीति प्रसिद्धम् । पुनः तत्किम् ।

यत् श्रुतीनां श्रूयते धर्मो याभिस्ताः श्रुतयः चत्वारो वेदाः

'श्रुञजी' त्यादिना क्तिन् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः ।

तेषां सर्वस्वं सर्वं च तत्स्वं च सर्वस्वम् । इदमेव वेदानां धन-

मिति भावः । यद्वा सर्वं च तत्स्वं च आत्मा । इदं सलिलमेव

वेदानामात्मेति भावः । 'स्त्रो ज्ञातावात्मनि स्वं त्रिष्वात्मीये

स्खोऽस्त्रियां धने' इत्यमरः । पुनस्तत्किम् । अथ यत्सुमनसां सु-

पर्वणाम् । 'सुपर्वाणः सुमनसः' इत्यमरः । मूर्त सशरीरं सुकृतं

पुण्यम् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः ।

पु० यत्सुधासौन्दर्य सुधेवामृतमिव सौन्दर्य यस्य तत् । अति-

शुभ्रमित्यर्थः । मधुराखादचिरजीवित्वादितत्कार्यकारीति वा ।

यद्वा सुधासौदर्यमिति वा पाठः । सुघेति पृथक्पदम् । चन्द्रो
 
STITO
 
POONA
 
1917
 
मावधा
 
Bhandarkar Oriental
Research Institute
 
॥ तेजा