This page has been fully proofread once and needs a second look.

संसर्गदोषभाक् सन्, गङ्गासकाशात् द्विपञ्चाशत्सोपानान्तरित-
निजगृहेऽवस्थितः तत्रैव च जाह्व्यागमनस्पर्शनेनात्मशुद्धिं
कामयमानः,'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥’ इति काव्यप्रका-
शोक्तेः शिवेतरक्षतिफलकगङ्गास्तुतिरूपं काव्यं चिकीर्षुर्विघ्नवि-
घाताय वस्तुनिर्देशात्मकं मङ्गलमाचरन् स्वाभिमतं प्रार्थयते --
 
समृद्धं सौभाग्यं सकलवसुधायाः किमपि त-
न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मुर्मूतं सुमनसां
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु १
 
समृद्धमिति । भो गङ्गे, ते तव । युष्मदः षष्ठ्येकवचनविशि-
ष्टस्य 'तेमयावेकवचनस्ये' ति ते आदेश: 'युष्मदर्थश्च' संबोध्यः ।
युष्मदः संबोध्य स्वतन्त्रः कर्ता अस्मदो वाच्यः
इत्यभियुक्तो-क्तेरित्याद्यन्यत्र विस्तरः ।
तत्सलिलम् सलति भक्तजनपापादि-नाशाय गच्छतीति सलिलं जलम् ।
'षल गतौ' 'सलिकली'त्यु-णादिसूत्रेण लच् । 'सलिलं कमलं जल'मित्यमरः । एवंचाशिव-
शमनप्रार्थनं युक्तमिति भावः । नः अस्माकमशिवं अकल्याणम्
शमयतु नाशयतु । प्रार्थनायां लोट् । तत्किम् । यत्सलिलं सकलव-
सुधायाः सकला चासौ वसुधा च सोर्वी तस्याः 'वसुधोर्वी वसुंधरे-
त्यमरः । यद्वा कलाभिः सहिता सकला वसु धनं धत्ते इति व
सुधा सकला चासौ वसुधा च तस्याः किमपि अनिर्वचनीय-
ममौल्यं वा समृद्धं बहु सौभाग्यं शोभादायकं अतिचतुरायाः