This page has been fully proofread once and needs a second look.

नाम । ततो विजितं विजितं भिक्षुणेति सतालवं प्रवृत्तेषु वचनेषु
तदानीमेव मूर्च्छत्सु तूर्येष्वाहन्यमानेषु मुरजेषु ध्वन्यमानेषु दुन्दु-
भिषु आध्मायमानेषु शङ्खेषूच्चरत्सु क्ष्वेलानुकारिषु सिंहनर्दिकाक्रेंकारे-
षु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमान इव
यशोमय इव च तस्मिन्समये सबहुमानं सप्रणामं च सौवर्णं यान-
मारोप्य भिक्षं श्रेष्ठिनः सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विज-
न्मानः । ततस्तु समुद्भूतजिज्ञासा: सर्वेऽपि तस्य भिक्षोः कुलं नाम
विद्यामभिजनं च पप्रच्छुः । तस्मिंश्चाशेषतोऽपि तेन कथिते निश्चिक्युः
काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजी तु
ततः प्रभृति तस्य पण्डितराजजगन्नाथस्य मित्रतामुपागच्छत् । ततो
गच्छता कालेन दिल्लीं गतो बादशाहं विज्ञाप्य जगन्नाथमपि दिल्ली-
नगर एवानाययामास । ततः प्रभृति च प्ररूढं जगन्नाथबादशाहयो:
सौहार्दमिति । एतादृंश्यन्यान्यपि लोकोत्तराणि चरितानि नैकशः
सन्त्यस्य महामहिमभाजः पण्डितरायस्य तथापि स्थलतानवाद्दि-
ग्दर्शनेनैवालमिति विरम्यते ।