This page has been fully proofread once and needs a second look.


 
गङ्गालहरी ।
 

 
नाम । ततो विजितं विजितं भिक्षुणेति सतालवं प्रवृत्तेषु वचनेषु

तदानीमेव मूर्च्छत्सु तूर्येष्वाह्न्यमानेषु मुरजेषु ध्वन्यमानेषु दुन्दु-

भिषु आध्मायमानेषु शङ्खेषूच्चरत्सु क्ष्वेलानुकारिषु सिंहनर्दिकाक्रेंकारे-
षु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमान इव
यशोमय इव च तस्मिन्समये सबहुमानं सप्रणामं च सौवर्ण यान-
मारोप्य भिक्षं श्रेष्ठिनः सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विज-
न्मानः । ततस्तु समुद्भूतजिज्ञासा: सर्वेऽपि तस्य भिक्षोः कुलं नाम
विद्यामभिजनं च पप्रच्छुः । तस्मिंश्चाशेषतोऽपि तेन कथिते निश्चिक्युः
काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजी तु
ततः प्रभृति तस्य पण्डितराजजगन्नाथस्य मित्रतामुपागच्छत् । ततो

गच्छता कालेन दिल्लीं गतो बादशाहं विज्ञाप्य जगन्नाथमपि दिल्ली-

नगर एवानाययामास । ततः प्रभृति च प्ररूढं जगन्नाथबादशाहयो:

सौहार्दमिति । एतादृदृंश्यन्यान्यपि लोकोत्तराणि चरितानि नैकशः

सन्त्यस्य महामहिमभाजः पण्डितरायस्य तथापि स्थलतानवाहि-

दर्शनेनैवालमिति विरम्यते ।
 
INSTITUTE
 
POONA
 
CH
 
FOUNDED
 
1917
 
॥ तंजस्त्रि
 
लावधीतमस्तु ॥
 
Bhandarkar Oriental
 
Research Institute