This page has been fully proofread once and needs a second look.

भगवन्तमुपवीणयामासुः । अवगताशेषवृत्तान्तश्च भगवान्भुजगभू-
षणो भागीरथीमौलिर्महेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीर-
यामास । अस्त्यत्र कस्यापि रत्नेश्वरनाम्नो द्विजन्मनो धनिकस्य सदन
[^१]आम्भसिकः कश्चिद्भिक्षुः स एवास्यावलिप्तस्य यवनहतकस्य पराजये
प्रभवतीति स एवाभ्यर्थ्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो
मनोरथद्रुमस्य तद्वचनमाकर्ण्य द्रुतपदं रत्नेश्वरश्रेष्ठिनो भवनमागत्या-
साद्य च श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । सच तेषां तद्वचन-
माकर्ण्य परं विस्मयमापन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय
निजगादाभिलषितं ब्राह्मणसमाजस्य । अपृच्छच्च अपि प्रभवसि
कर्मण्येतस्मिन्निति । ततो धीवरजालायमानेनासंख्येयतन्तुसन्तानेना-
जानुलम्बिना मलीमसेन वसनेनावेष्टिताधःकायो जठरभरमन्थरगति-
रंसमुभयतः प्ररूढैर्जलकुम्भवहनसंजातैःकिणैः समुल्लसितः पीवरतनुः
श्यामायमानेन चैलखण्डेन वेष्टितोत्तमाङ्गो घटीचेटो हुंकरिष्याम्येत-
द्यदि भवन्तोऽनुजानीयुरिति मन्दंमन्दं प्रत्ययोजिष्ट । ततः श्रेष्ठिना सम-
र्पिते तस्मिन्प्रमुदिता ब्राह्मणाः कौशेयानि पट्टवसनानि परिधाप्य अन-
र्घ्यैर्भूषणैरलंकृत्योष्णीषसमुल्लसितं च तस्य मूर्धानं विधाय कनकशि-
बिकायामारोप्य महीयसा महोत्सवेन विरचितायां सभायामानाय्य
तमुपवेशयामासुः । काजीरपि समाहूतागतस्तस्यैव संमुखमुपाविक्षत् ।
ततो दोलायमानकूर्चिकाकलापं समुद्धूयमानश्मश्रुजालं च प्रवदता
काज्या सह प्रववृते भिक्षोर्विवादः । अन्ते पुनर्भिक्षुवचनचातुरीवि-
स्मितोऽश्रुतपूर्वाः सहस्रशो युक्तीराकर्ण्येतिकर्तव्यतामूढो विवाद-
सागरमुत्तरीतुमप्रभविष्णुः काजी तूष्णींभावमवलम्ब्य मिक्षुं प्रण-
--------------------------------------------
[^१] अम्भःपूरणाधिकृतो विप्रः ।