This page has been fully proofread once and needs a second look.

प्रस्तावना ।
 

 
भगवन्तमुपवीणयामासुः । अवगताशेषवृत्तान्तश्च भगवान्भुजगभू-

षणो भागीरथीमौलिर्महेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीर-

यामास । अस्त्यत्र कस्यापि रत्नेश्वरनाम्नो द्विजन्मनो धनिकस्य सदन

आम्भसिकः कश्चिद्भिक्षुः स एवास्यावलिप्तस्य यवनहतकस्य पराजये

प्रभवतीति स एवाभ्यर्थ्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो

मनोरथद्रुमस्य तद्वचनमाकर्ण्य द्रुतपदं रत्नेश्वरश्रेष्ठिनो भवनमागत्या-

साद्य च श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । सच तेषां तद्वचन-

माकर्ण्य परं विस्मयमापन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय

निजगादाभिलषितं ब्राह्मणसमाजस्य । अपृच्छच्च अपि प्रभवसि

कर्मण्येतस्मिन्निति । ततो धीवरजालायमानेनासंख्येयतन्तुसन्तानेना-

जानुलम्बिना मलीमसेन वसनेनावेष्टिताधःकायो जठरभरमन्थरगति-

रंसमुभयतः प्ररूढैर्जलकुम्भवहनसंजातैः किणैः समुल्लसितः पीवरतनुः

श्यामायमानेन चैलखण्डेन वेष्टितोत्तमाङ्गो घटीचेटो हुंकरिष्याम्येत-

द्यदि भवन्तोऽनुजानी युरिति मन्दमन्दं प्रत्ययोजिष्ट । ततः श्रेष्ठिना सम-

र्पिते तस्मिन्प्रमुदिता ब्राह्मणाः कौशेयानि पट्टवसनानि परिधाप्य अन-

घ्यैर्भूषणैरलंकृत्योष्णीषसमुल्लसितं च तस्य मूर्धानं विधाय कनकशि -

बिकायामारोप्य महीयसा महोत्सवेन विरचितायां सभायामानाय्य

तमुपवेशयामासुः । काजीरपि समाहूतागतस्तस्यैव संमुखमुपाविक्षत् ।

ततो दोलायमानकूचिकाकलापं समुद्धूयमानश्मश्रुजालं च प्रवदता

काज्या सह प्रववृते भिक्षोर्विवादः । अन्ते पुनर्भिक्षुवचनचातुरीवि-

स्मितोऽश्रुतपूर्वाः सहस्रशो युक्तीराकर्ण्यतिकर्तव्यतामूढो विवाद-

सागरमुत्तरीतुमप्रभविष्णुः काजी तूष्णींभावमवलम्ब्य मिक्षु प्रण-
POONA
 
FOUNDED
-4917-
॥ तेजस्विनावधीतमस्तु ॥
 

 
१ अम्भः पूरणाधिकृतो विप्रः ।.
 
Bhandarkar Oriental
Research Institute
 
ANS)