This page has been fully proofread once and needs a second look.

अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि
पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाद्य शास्त्र-
सागरमुल्लङ्घय च तत्र तत्र निवसतः पण्डितगणान्पराभवतिस्म ।
सच तैस्तैः पण्डितैर्विवमानस्तांस्तान्विदुषो विजयमानस्तत्रतत्र
प्रदेशे सनातनं भारतधर्ममुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रति-
पादयन्यवनधर्मे परिखण्डयन् शास्त्राणि हेपयन्नखिलया संस्कृतगिरा
भारतीयान्विबुधानवजिताशेषदक्षिणप्रदेशः सकलविद्यावेवैशद्यावभा-
सितां नानाविधबुधमण्डलीमण्डितां पण्डिताग्रेसरसमुपक्रम्यमाण-दार्शनिक- विषयचर्चामर्चानुकूलफलसमर्पणकल्पपादपायमानेन भग-वता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परम- पावनया मन्दाकिनीदेव्या परिगतां समुपचीयमानसुकृतराशिं
काशीं नाम गरीयसीं नगरीमुपतस्थौ । ततश्च तत्रत्यान्विबुधाना-
ह्वयमानः काजी सभां महीयसीं निर्माय विवादमारिप्सामास ।
पण्डिता अपि तदानीमेवाहं पूर्विकया सभामागत्य विविधाभियुक्ति-
भिर्नानाविधाभिर्वचनरचनाभिः परिस्फुरन्तीभिः प्रणामपरम्परा-
भिश्च काजीं जेतुमयतन्त । काजी तु पवन इव पथि पतितां-
स्तृणच्छेदांस्तानि वचनजालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः
करनखराग्रैमैरानाभि लम्बमानां धवलकीर्तिसंततिमिव पुञ्जीभूयो-
पागतां कूर्चिकां परिष्कुर्वन् सावहेलमप्रासनमधिरुरोह तदनु
विवादेऽप्रभविष्णवोऽप्यपमानासहिष्णवो वाराणसीनिवासिनो द्वि-
जन्मानोऽनुचरविपद्पहर्तारं सृष्टिस्थितिप्रलयकर्तारं निजपरिचरप्रति-
भटखण्डनं सुधाकरकलामण्डनं समुपेत्यानन्यगतेन मनसा नाना-
विधाभिस्तत्कालसमुचिताभिः करुणरसपरिप्लुताभिः स्तुतिभिस्तमेव
 
१ दाढीतिप्रसिद्धाम् ।