This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि

पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाद्य शास्त्र-

सागरमुल्लङ्घ्य च तत्र तत्र निवसतः पण्डितगणान्पराभवतिस्म ।

सच तैस्तैः पण्डितैर्विवमानस्तांस्तान्विदुषो विजयमानस्तत्रतत्र

प्रदेशे सनातनं भारतधर्ममुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रति-

पादयन्यवनधर्मे परिखण्डयन् शास्त्राणि हेपयन्नखिलया संस्कृतगिरा

भारतीयान्विबुधानवजिताशेषदक्षिणप्रदेशः सकलविद्यावेशद्यावभा-

सितां नानाविधबुधमण्डलीमण्डितां पण्डिताग्रेसरसमुपक्रम्यमाण--
दार्शनिक विषयचर्चा
मर्चानुकूलफल समर्पणकल्पपादपायमानेन भग-
वता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परम--
पावनया मन्दाकिनीदेव्या परिगतां समुपचीयमानसुकृतराशि
शिं
काशीं नाम गरीयसीं नगरीमुपतस्थौ । ततश्च तत्रत्यान्विबुधाना-
हृ

ह्व
यमानः काजी सभां महीयसीं निर्माय विवादमारिप्सामास ।

पण्डिता अपि तदानीमेवाहं पूर्विकया सभामागत्य विविधाभियुक्ति-

भिर्नानाविधाभिर्वचनरचनाभिः परिस्फुरन्तीभिः प्रणामपरम्परा-

भिश्च काज जेतुमयतन्त । काजी तु पवन इव पथि पतितां-

स्तृणच्छेदांस्तानि वचनजालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः

करनखरामैरानाभि लम्बमानां धवलकीर्तिसंततिमिव पुञ्जीभूयो-

पागतां कूर्चिकां परिष्कुर्वन् सावहेलमप्रासनमधिरुरोह तदनु

विवादेऽप्रभविष्णवोऽप्यपमानासहिष्णवो वाराणसीनिवासिनो द्वि-

जन्मानोऽनुचर विपद्पहर्तारं सृष्टिस्थितिप्रलयकर्तारं निजपरिचरप्रति-

भटखण्डनं सुधाकर कलामण्डनं समुपेत्यानन्यगतेन मनसा नाना-

विधाभिस्तत्कालसमुचिताभिः करुणरसपरिप्लुताभिः
 

 
१ दाढीतिप्रसिद्धाम् ।
 

 
LUTE
 
स्तुतिभिस्तमेव
 
1917
 
॥ तेजस्विभीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute