2022-11-12 07:19:41 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>पञ्चमः सर्गः ५ ।</bold>
साकाङ्क्षपुण्डरीकाक्षः ।
अहमिह निवसामि याहि राधा-
मनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ १ ॥
<bold>देशीवराडीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १० ॥</bold>
वहति मलयसमीरे मदनमुपनिधाय
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ १॥
तव विरहे वनमाली सखि सीदति ॥ ध्रुवम् ॥
पुरीमिव पालयिताखिलभुवं कुम्भनरेशो नत्वा शिवम् ।
गायति धातुं रसिकामृतं जयदेवोदितं मातौ वृतम् ॥
इदानीं सखीनिवेदितो माधवस्तदभिमुखीभूय तदानयनाय सखीं प्रहितवान् । <pratika>अय-
मिति ।</pratika>सेत्यध्याहार्यम् । या पूर्वं प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य व-
क्ष्यमाणं जगाद । किंभूता सखी । मधुरिपुणा इति नियुक्ता इत्यादिष्टा । इतीति किम् । अह-
मिह यमुनाकुञ्जे निवसामि । यावदागमिष्यति तावत्प्रतीक्षां करिष्य इति । त्वं याहि मद्व-
चनेन राधामनुनय । अनुनीय च आनयेथाः । पुष्पिताग्रावृत्तम् ॥ १॥ तदेव वक्ष्यमाण-
माह । अत्राभिसारिका नायिका वर्णनीया -- "संस्कृतात्प्राकृतमिष्टं ततोऽपभ्रंशभाषणम् ।
ततः प्रियतरा वेश्या सर्वतश्चाभिसारिका" इति भरतः ॥ तल्लक्षणं भरते --"लज्जां
हित्वा समाकृष्टा यौवनेन व्रजेत्तु या । अभिसारगतं कान्तं कीर्तिता साभिसारिका ॥" अत्र
पूर्वं "तव विरहे" इति ध्रुवः । अथ पदानि । <pratika>वहतीति ।</pratika> क्व सति । मदनमुपनिधाय
मदनस्य स्पृहामुत्पाद्य मलयसमीरे वहति सति । पुनः क्व सति । विरहिहृदयदलनाय
<pratika>अहमिति ।</pratika>मधुरिपुणा इति एवंप्रकारेण नियुक्ता आज्ञप्ता सखी स्वयमेत्यागत्य राधां
वक्ष्यमाणं जगादोवाच । इति किम् । त्वं राधां याहि मद्वचनेन तामनुनय । कृतापराधेन
मया साक्षाद्वक्तुं न शक्यतेऽतो माधवेनैवमेवमुक्तमित्युक्त्वा त्वमनुनयेति भावः । तां च
मदन्तिकमानयेथा आनय । ननु कुत्र मयानेया इत्यत आह । अहमिह निवसामि इहैव
कुञ्जेऽहं तां प्रतीक्षमाणस्तिष्ठामीत्यर्थः ॥ १ ॥ यत्तत्सखीं जगाद तदेव गीतेन कथयति --
<pratika>वहतीति ।</pratika>गीतस्यास्य देशीवराडीरागो रूपकतालः । ताललक्षणमुक्तं प्राक् । गीतार्थस्तु -- हे
सखि, वनमाली कृष्णः सीदति । क्व सति । मलयसमीरे मलयसंबन्धिवाते वहति,
कुसुमनिकरे पुष्पसमूहे विरहिणां हृदयदलनाय विदारणाय स्फुटति विकसति सति ।
किं कृत्वा । मदनं काममुपनिधाय समीपवर्तिनं कृत्वा । तथा च कुसुमनिकरैरेव