This page has been fully proofread once and needs a second look.

सर्गः ५ ] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
<bold>पञ्चमः सर्गः ५ ।
 
</bold>
 
साकाङ्क्षपुण्डरीकाक्षः ।
 

 
अहमिह निवसामि याहि राधा-

मनुनय मद्वचनेन चानयेथाः ।
 

इति मधुरिपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ १ ॥
 
<bold>देशीवराडीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १० ॥</bold>
 
वहति मलयसमीरे मदनमुपनिधाय
 

स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ १॥

तव विरहे वनमाली सखि सीदति ॥ ध्रुवम् ॥
 
७७
 

 
पुरीमिव पालयिताखिलभुवं कुम्भनरेशो नत्वा
शिव
 
Sana
 
म् ।
गायति धातुं रसिकामृतं जयदेवोदितं मातौ वृतम् ॥
तिदानीं सखीनिवेदितो माधवस्तदभिमुखीभूय तदानयनाय सखीं प्रहितवान् । <pratika>अय-
मिति ।</pratika>सेत्यध्याहार्यम् । या पूर्वं प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य व-
क्ष्यमाणं जगाद । किंभूता सखी ।
मधुरिपुणा सखी नियुक्ता
 
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ १ ॥
 
देशीवराडीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १० ॥
 

 
पुरीमिव पालयिताखिलभुवं कुम्भनरेशो नत्वा शिवम् ।
गायति धातुं रसिकामृतं जयदेवोदितं मातौ वृतम् ॥
इदानीं सखी निवेदितो माधवस्तदभिमुखीभूय तदानयनाय सखीं प्रहितवान् । अय-
मिति । सेत्यध्याहार्यम् । या पूर्व प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य व
क्ष्यमाणं जगाद । किंभूता सखी । मधुरिपुणा
इति नियुक्ता इत्यादिष्टा । इतीति किम् । अह-

मिह यमुनाकुञ्जे निवसामि । यावदागमिष्यति तावत्प्रतीक्षां करिष्य इति ।
त्वं याहि मद्-

चनेन राधामनुनय । अनुनीय च आनयेथाः । पुष्पिताप्ग्रावृत्तम् ॥ १॥ तदेव वक्ष्यमाण-

माह । अत्राभिसारिका नायिका वर्णनीया– ' -- "संस्कृतात्प्राकृतमिष्टं ततोऽपभ्रंशभाषणम् ।

ततः प्रियतरा वेश्या सर्वतश्चाभिसारिका'" इति भरतः ॥ तल्लक्षणं भरते–' --"लज्जां

हित्वा समाकृष्टा यौवनेन व्रजेत्तु या । अभिसारगतं कान्तं कीर्तिता साभिसारिका ॥'" अत्र

पूर्वं '"तव विरहे'" इति ध्रुवः । अथ पदानि । <pratika>वहतीति ।</pratika> क्व सति । मदनमुपनिधाय

मदनस्य स्पृहामुत्पाद्य मलयसमीरे वहति सति । पुनः क्व सति । विरहिहृदयदलनाय
 
-
 

 
<pratika>
अहमिति । </pratika>मधुरिपुणा इति एवंप्रकारेण नियुक्ता आज्ञप्ता सखी स्वयमेत्यागत्य राधां

वक्ष्यमाणं जगादोवाच । इति किम् । त्वं राधां याहि मद्चनेन तामनुनय । कृतापराधेन

मया साक्षाद्वक्तुं न शक्यतेऽतो माधवेनैवमेवमुक्तमित्युक्त्वा त्वमनुनयेति भावः । तां च

मदन्तिकमानयेथा आनय । ननु कुत्र मयानेया इत्यत आह । अहमिह निवसामि इहैव

कुञ्जेऽहं तां प्रतीक्षमाणस्तिष्ठामीत्यर्थः ॥ १ ॥ यत्तत्सखीं जगाद तदेव गीतेन कथयति -
-
<pratika>
वहतीति । </pratika>गीतस्यास्य देशीवराडीरागो रूपकतालः । ताललक्षणमुक्तं प्राक् । गीतार्थस्तु -- हे

सखि, वनमाली कृष्णः सीदति । क्व सति । मलयसमीरे मलयसंबन्धिवाते वहति,

कुसुमनिकरे पुष्पसमूहे विरहिणां हृदयदलनाय विदारणाय स्फुटति विकसति सति ।

किं कृत्वा । मदनं काममुपनिधाय समीपवर्तिनं कृत्वा । तथा च कुसुमनिकरैरे
९ गीत•
 

 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri