This page has not been fully proofread.

सर्गः ४ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
श्वसिति कथमसौ रसालशाखां
 
चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ १२ ॥
वृष्टिव्याकुलगोकुलावनर॑सादुद्धृत्य गोवर्धनं
विभ्रल्लववल्लभाभिरधिकानन्दाच्चिरं
दुर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
 
चुम्बितः ।
 
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ १३ ॥
इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ ४ ॥
 

 
विरहिणो न जीवन्तीत्यत्रा कूतम् । सा कथं श्वसितीति चिरविरहेऽपि रसालशाखां
विलोक्य । रसालो रससमूहो भवान् । तस्य शाखां अन्तिकं समीपं तां विलोक्य ।
किंविधां शाखाम् । पुष्पिताग्रां पुष्पितं संजातपुष्पमग्रमुत्तरकालो यस्याः सा ताम् ।
तवान्तिकं लप्स्य इत्यभिकाङ्क्षया श्वसिति । अथवा पुष्पिताग्रां चूतशाखां दृष्ट्वा
श्वसितीति युक्तार्थः । एवंविधां चूतशाखां दृष्ट्वा स्मरशरजर्जरितशरीरः सोऽवश्यं
मामेष्यतीति ॥ वृत्तमपि पुष्पितामा ॥ १२ ॥ इदानीं मङ्गलान्तानि च शास्त्राणि
प्रथन्त इति न्यायमाचरन्कविरा शिष माह - वृष्टीति । कंसद्विषः कृष्णस्य बाहुर्भवतां
श्रोतॄणां श्रेयांसि तनोतु किं कुर्वन् । उद्धृय गोवर्धनं गिरं बिभ्रत् । कस्मात् ।
वृष्टिव्याकुलगोकुलावनरसात् । वृष्ट्या व्याकुलं यद्गोकुलं तस्य यदवनं पालनं तत्र
रसो रागो वीर्यं वा तस्मात् । पुनः किंभूतो बाहुः । बलववल्लभाभिर्गोपाङ्गनाभिर
धिकानन्दाचिरं चुम्बितः । पुनः किंभूतो बाहुः । तदर्पिताधरतटीसिन्दूरमुद्राङ्कितः ।
ताभिक्षुम्बनार्थमर्पिता या अधरतटी तस्याः सिन्दूरमुद्रयेव शोणितत्वेनाङ्कितः ।
उत्प्रेक्षते । गोवर्धनोद्धरणलक्षणजातगर्वेणेव शोणितः । किंविधस्य कंसद्विषः । गोप-
तनोः गोपस्य तनुरिव तनुर्यस्य सः । गोपवेषस्येत्यर्थः । अत्राद्भुतो रसः । उत्प्रेक्षोपमे
अलंकृती । शार्दूलविक्रीडितं वृत्तम् ॥ १३ ॥ "मालवश्रीः स्मृतो रागस्तालो निःसा-
रसंज्ञकः । वाग्गेयकारनामाङ्कपदतस्तेन सन्ततिः ॥ ततः पाटाः पदानि स्युः पञ्चषणि
रसोऽत्र यः । शृङ्गारो वासुदेवस्य क्रीडनं रासकादिभिः ॥ छन्दोऽपि रासको ज्ञेयं
स्वेच्छया वा कृतं भवेत् । स्निग्धमधुसूदनोऽयं रासावलयनामकः । प्रबन्धः पृथिवी-
भर्त्रा प्रबन्धः प्रीतये हरेः ॥ इति स्निग्धमधुसूदनरासावलयनामा नवमः प्रबन्धः । "
इत्ययं नवमप्रबन्धस्य टीकांशो ज्ञेयः ॥
 

 
एक स्तावदनूनधन्विविषय स्वीकारलक्ष्योऽपरः
स्फूर्जद्गुर्जरशूरनायक जयप्रोद्दा मिताडम्बरः ।
 
कृत्वा । पुष्पिताग्रां पुष्पितोऽग्रभागो यस्यास्तादृशीम् । रसालशाखां चूतशाखां विलोक्य
दृष्ट्वा । श्वसितीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । छन्दोऽपि चेदं
पुष्पिताग्रानामकमिति ध्वनितम् । तल्लक्षणं वृत्तरत्नाकरे – 'अयुजि नयुगरेफतो यकारो
१ 'वनवशात्' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri