This page has been fully proofread once and needs a second look.

७४
 
गीतगोविन्दकाव्यम्
 
कन्दर्पज्वर संज्वरातुरंर[‍^१]तनोराश्चर्यमस्याश्चिरं

चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।

किंतु[^२] क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
 

ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ११ ॥

 
क्षणमपि विरहः पुरा न सेहे

नयननिमीलनखिन्नया यया ते ।
 
[ सर्गः ४
 
-
 

 
कल्पस्तन्मात्रसाध्याम् । अतोऽल्पप्रयासे बहुतरपुण्ये च प्रयोजने महान्तो नावसीद
-
न्तीति । वृत्तमप्युपेन्द्रवज्रा ॥ १०॥ ईदृशीमवस्थां प्राप्तापि त्वत्सङ्गमाकाङ्क्षयैव प्राणिती-

त्
याह --<pratika>कन्दर्पेति । </pratika>हे माधव, अस्याश्चेतश्चिरं चन्दनचन्द्रमःकमलिनीचिन्तासु

यत्संताम्यति तदाश्चर्यम् । किंविशिष्टायाः । कन्दर्पज्वरसंज्वराकुलतनोर्मदन संतापाकुल-

शरीरायाः । तापे सति शीतवस्तुषु स्पृहा नास्तीत्याश्चर्यम् । किंतु आश्चर्यान्तरमपि .

क्लान्तिवशेन क्षीणा रहस्येकान्ते स्थिता लात्वामेवैकं प्रियं शीतलतनुं कथमपि ध्यायन्ती

क्षणं क्षणमात्रं प्राणिति जीवति । अत्र शीतलेषु द्वेषः । शीतलादपि जीवतीति विरोधालं-

कारः । अद्भुतश्च रसः । शार्दूलविक्रीडितं वृत्तम् ॥११॥ इदानीं त्वदागमनहेतुं मनसि

स्थिरीकृत्य प्राणितीत्याह - - <pratika>क्षणेति । </pratika>हे माधव, यया राधया पुरा ते विरहः क्षणमपि न

सेहे न सोढः । किंभूतया । नयन निमीलन खिन्नया नयननिमीलनेनापि खिन्ना सा तया ।

भवद्दर्शनान्तरे निमिषेऽपि या दुःखं प्राप्नोति, असौ सांप्रतं चिरविरहेऽपि रसालशाखां

चूतशाखां विलोक्य, कथं श्वसिति प्राणिति तन्न जाने । किंविधां रसालशाखाम् ।

पुष्पिताप्ग्रां पुष्पिताग्रभागाम् । अत्र पुष्पितया चूतशाखया वसन्तो लक्ष्यते । वसन्ते हि

 
वज्र।रापेक्षयापि दारुणत्वमिति भावः । उपेन्द्रवज्रा छन्दः ॥ १० ॥ ननु शीतोपचारैरेव

तनुज्वरशान्तिर्भविष्यतीति किं शपत्यत आह -- <pratika>कन्दर्पेति । </pratika>अहो अस्याश्चेतश्चित्तं चन्दन-

चन्द्रमःकमलिनीचिन्तासु चन्दनचन्द्र पद्मिनीवार्तास्वपि सखीभिः क्रियमाणासु संताम्यति

ग्लानिं प्राप्नोति । कीदृश्याः । कन्दर्पज्वरेण यः संज्वरः संतापस्तेनातुरतनो

रुग्णदेहायाः । विरोधोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । नन्वेतादृशे संतापे कथं

जीवतीत्यत आह -- <pratika>किंत्विति । </pratika>हे इन प्रभो, त्वामेव प्रियं शीतलतनुं ध्यायन्ती सती क्षणं

प्रतिजीवति । कीदृशी । क्षणं रहसि स्थिता । पुनः कीदृशी । उत्क्रान्तिवशा उत्क्रान्तेः

प्राणोत्क्रमणस्य वशा आयत्ता । तत्र हेतुगर्भविशेषणमाह । क्षीणा कार्श्यादतिदुर्बला । तथा

शीतलं चाङ्गस्पर्शं ध्यायन्ती संप्रति जीवतीति त्वया झटिति गन्तव्यं, पुनस्तस्या

दर्शनमपि ते दुर्लभं भवतीति भावः ॥ ११ ॥ ननु इयन्तं कालं यथा जीवति तथाग्रेऽपि

जीवतीत्यत आह -- <pratika>क्षणमिति ।</pratika> अनया राधया ते विरहः पुरा त्वत्सङ्गदशायां क्षणमपि

सेहे न सोढः । कीदृश्या । नयनयोर्निमीलनं निमेषस्तेन खिन्नया दुःखितया ।

किमिति धात्रा नयनयोर्निमेषः सृष्टः यतः क्षणोऽपि जगदीश्वरमुखारविन्ददर्शने प्रत्यूहो

भवतीति खेदयुक्तयेति भावः । असौ राधा विरहेण कथं श्वसिति । जीवतीत्यर्थः । किं

 
[‍^
'.] "ज्वराकुलतनोः'" इति पाठः । [‍^.] किंतूत्क्रान्तिवशेन' इति पाठः ।
 
-
 
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri