2022-10-18 04:14:06 by ambuda-bot
This page has not been fully proofread.
७४
गीतगोविन्दकाव्यम्
कन्दर्पज्वर संज्वरातुरंतनोराश्चर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ११ ॥
क्षणमपि विरहः पुरा न सेहे
नयननिमीलनखिन्नया यया ते ।
[ सर्गः ४
-
कल्पस्तन्मात्रसाध्याम् । अतोऽल्पप्रयासे बहुतरपुण्ये च प्रयोजने महान्तो नावसीद •
न्तीति । वृत्तमप्युपेन्द्रवज्रा ॥ १०॥ ईदृशीमवस्थां प्राप्तापि त्वत्सङ्गमाकायैव प्राणिती-
याह – कन्दर्पेति । हे माधव, अस्याश्चेतश्चिरं चन्दनचन्द्रमःकमलिनीचिन्तासु
यत्संताम्यति तदाश्चर्यम् । किंविशिष्टायाः । कन्दर्पज्वरसंज्वराकुलतनोर्मदन संतापाकुल-
शरीरायाः । तापे सति शीतवस्तुषु स्पृहा नास्तीत्याश्चर्यम् । किंतु आश्चर्यान्तरमपि .
क्लान्तिवशेन क्षीणा रहस्येकान्ते स्थिता लामेवैकं प्रियं शीतलतनुं कथमपि ध्यायन्ती
क्षणं क्षणमात्रं प्राणिति जीवति । अत्र शीतलेषु द्वेषः । शीतलादपि जीवतीति विरोधालं-
कारः । अद्भुतश्च रसः । शार्दूलविक्रीडितं वृत्तम् ॥११॥ इदानीं त्वदागमनहेतुं मनसि
स्थिरीकृत्य प्राणितीत्याह - क्षणेति । हे माधव, यया राधया पुरा ते विरहः क्षणमपि न
सेहे न सोढः । किंभूतया । नयन निमीलन खिन्नया नयननिमीलनेनापि खिन्ना सा तया ।
भवद्दर्शनान्तरे निमिषेऽपि या दुःखं प्राप्नोति, असौ सांप्रतं चिरविरहेऽपि रसालशाखां
चूतशाखां विलोक्य, कथं श्वसिति प्राणिति तन्न जाने । किंविधां रसालशाखाम् ।
पुष्पिताप्रां पुष्पिताग्रभागाम् । अत्र पुष्पितया चूतशाखया वसन्तो लक्ष्यते । वसन्ते हि
वज्र।पेक्षयापि दारुणत्वमिति भावः । उपेन्द्रवज्रा छन्दः ॥ १० ॥ ननु शीतोपचारैरेव
तनुज्वरशान्तिर्भविष्यतीति किं शपत्यत आह — कन्दर्पेति । अहो अस्याश्चेतश्चित्तं चन्दन-
चन्द्रमःकमलिनीचिन्तासु चन्दनचन्द्र पद्मिनीवार्तास्वपि सखीभिः क्रियमाणासु संताम्यति
ग्लानिं प्राप्नोति । कीदृश्याः । कन्दर्पज्वरेण यः संज्वरः संतापस्तेनातुरतनो
रुग्णदेहायाः । विरोधोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । नन्वेतादृशे संतापे कथं
जीवतीत्यत आह — किंत्विति । हे इन प्रभो, त्वामेव प्रियं शीतलतनुं ध्यायन्ती सती क्षणं
प्रतिजीवति । कीदृशी । क्षणं रहसि स्थिता । पुनः कीदृशी । उत्क्रान्तिवशा उत्क्रान्तेः
प्राणोत्क्रमणस्य वशा आयत्ता । तत्र हेतुगर्भविशेषणमाह । क्षीणा कार्यादतिदुर्बला । तथा
शीतलं चाङ्गस्पर्श ध्यायन्ती संप्रति जीवतीति त्वया झटिति गन्तव्यं, पुनस्तस्या
दर्शनमपि ते दुर्लभं भवतीति भावः ॥ ११ ॥ ननु इयन्तं कालं यथा जीवति तथाग्रेऽपि
जीवतीत्यत आह — क्षणमिति । अनया राधया ते विरहः पुरा त्वत्सङ्गदशायां क्षणमपि
नसेन सोढः । कीदृश्या । नयनयोर्निमीलनं निमेषस्तेन खिन्नया दुःखितया ।
किमिति धात्रा नयनयोर्निमेषः सृष्टः यतः क्षणोऽपि जगदीश्वरमुखारविन्ददर्शने प्रत्यूहो
भवतीति खेदयुक्तयेति भावः । असौ राधा विरहेण कथं श्वसिति । जीवतीत्यर्थः । किं
१ 'ज्वराकुलतनोः' इति पाठः । २ किंतूत्क्रान्तिवशेन' इति पाठः ।
-
-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri