This page has been fully proofread once and needs a second look.

सर्गः ४ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
७३
 
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।

निवृ[‍^१] त्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि ॥१०॥
 

 
सरति । उत्कम्पत्युद्भ्रमतिभ्यां वेपथुः । ताम्यतिना स्वेदः । ध्यायतिपततिभ्यां स्तम्भः।

पततीति वैपरीत्येन तपतिर्वैवये॑र्ण्ये योजनीयः । प्रमीलतिना स्वरभङ्गः । मूर्च्छतिना प्रलयः।

इत्येवमष्टौ सात्त्विका भावाः प्रदर्शिता भवन्ति । सन्मनस्तत्प्रभवाः सात्त्विकाः ।

इदमाकूतम् । त्वय्यारोपितमनस्का त्वया जीवनीयेति । अन्यथा आश्रितत्यागलक्षणं

दूषणमपीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् । अत्र दीपकमलंकारः । विप्रलम्भाख्यः

शृङ्गारो रसः । अत्र पूर्वार्धेन स्थायिभावा उक्ताः । तदुक्तम् – 'रति-- "रतिर्हासश्च शोकश्च क्रोधो-

त्साहौ भयं तथा । जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥'" इति । सात्त्विकाश्च

पूर्वत एव उक्ताः ॥ अहमित्याद्यनुकूलो नायको दक्षिणो वा । उत्कण्ठिता नायिका ।

सखी दूतीत्वेन सहायिनी । तल्लक्षणम् – '-- "प्रवृत्तिकुशला धीरा गूढमन्त्रदृढप्रिया ।

स्वतन्त्रा विधवा दासी दुष्टा प्रव्रजिता सखी । मालाकारादिनारी च कार्या दूतीष्ट-

सिद्धये'" ॥ ९ ॥ तदेव पूर्वसूचितदूषणमुद्भावयति - - <pratika>स्मरेति । </pratika>हे उपेन्द्र, दैवतवै-

द्
यहृद्य अश्विनीसुतसुन्दर ततोऽप्यधिक चिकित्सक, यदि त्वं पूर्वोक्तलक्षणां राधां निवृ-

त्तबाधां निवृत्ता बाधा यस्यास्तां न कुरुषे तर्हि वज्रादपि दारुणोऽसि कठिनोऽसि ।

कठिनः खलु कथमपि न स्निह्यतीति । किं विशिष्टां राधाम् । स्मरातुराम् । पुनः

किंभूताम् । रोगिणां चिकित्सा भविष्यतीत्याशङ्क्याह -- <pratika>त्वदङ्गेति । </pratika>त्वदङ्गसङ्ग एवामृत-

 
रसाच्छृङ्गाररसाकित्किं न जीवेत् । अपि तु जीवेदेव । अन्यथा त्वं चेन्न प्रसीदसि तदा तया

हस्तकोऽपि त्यक्तप्राय इत्यर्थः । संप्रति मूच्छितायास्तस्या <erro>वक्तमपारयन्त्या</error><fix>वक्तुमपारयन्त्या</fix> हस्तचेष्टयैव

सखीषु व्यवहारो भवति सोऽपि तथा त्यक्तव्य इत्यर्थः । अन्यत्रापि ज्वरे सति ज्वरी

रोमाञ्चति शीतादिना रोमाञ्चानिवाचरति । वेदनया शीतक्लमात्सीत्कारं करोति ।

मोहाद्यत्किंचिद्वदति । उत्कम्पते कम्पयुक्तो भवति । ताम्यति विह्वलो भवति । उद्याति

वायुवेगाद्धावति । मूर्च्छति मूर्च्छाछां प्राप्नोति । एतादृश्यतनुज्वरे महति सान्निपातिके

ज्वरे कस्यचित्स्वर्वैद्य प्रतिमस्य प्रसादेन रसात्पारदादितो ज्वरी किं न जीवेत् । अपि तु

जीवेदेव । ननु सान्निपातिकज्वरे सहसा रसदानं निषिद्धमित्यत आह - - <pratika>अन्यथेति ।
</pratika>
अन्यप्रकारेण संहितामार्गेण हस्तकोऽपि वैद्यानां हस्तप्रक्रियाविशेषो '"हथवटी'" इति लोके

प्रसिद्ध उक्तः । संहिताप्रक्रिययोपचारे कृते विशेष प्राप्ते रसदानमुचितमिति भावः । क्वचित्
'

"
त्वत्तोऽन्यथा नान्तकः'" इति पाठः । तदान्यथा यदि न प्रसीदसि त्वत्तवापेक्षयान्तको न, अपि

तु त्वमेवान्तक इत्यर्थः । रोमाञ्चति । द्वितीयव्याख्याने क्किविप्प्रत्यये तलोपेऽपि रूपं बोध्यम् ।
'

"
रसो गन्धे रसः खास्वादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे'
"
इति विश्वः ॥ ९ ॥ <pratika>स्मरातुरामिति ।</pratika> हे दैवतवैद्यहृद्य, दैवतानां यौ वैद्यावश्विनीकुमारौ

तद्वद्धृद्य मनोज्ञ, स्मरातुरां मदनरुग्णां त्वदङ्गसङ्ग एव यदमृतं तन्मात्रसाध्यां राषां
धां
विमुक्तबाधां त्यक्तपीडां न कुरुषे । अतो हेतोरुपेन्द्र वज्रादपि दारुणोऽसि कठिनोऽसि ।

यतो वज्रमिन्द्रेण क्षिप्तमङ्गसंबद्धं सद्व्यथयति, त्वं तु विश्लेषे सत्येव व्यथयसीति

 
[‍^
.] विमुक्तबाधाम् ।
 

 

 
9
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri