2022-10-18 04:14:05 by ambuda-bot
This page has not been fully proofread.
सर्गः ४ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
७३
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
निवृत्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि ॥१०॥
सरति । उत्कम्पत्युमतिभ्यां वेपथुः । ताम्यतिना स्वेदः । ध्यायतिपततिभ्यां स्तम्भः।
पततीति वैपरीत्यन तपतिर्वैवये॑ योजनीयः । प्रमीलतिना खरभङ्गः । मूर्च्छतिना प्रलयः।
इत्येवमटौ सात्त्विका भावाः प्रदर्शिता भवन्ति । सन्मनस्तत्प्रभवाः सात्त्विकाः ।
इदमाकूतम् । त्वय्यारोपितमनस्का त्वया जीवनीयेति । अन्यथा आश्रितत्यागलक्षणं
दूषणमपीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् । अत्र दीपकमलंकारः । विप्रलम्भाख्यः
शृङ्गारो रसः । अत्र पूर्वार्धेन स्थायिभावा उक्ताः । तदुक्तम् – 'रतिसश्च शोकश्च क्रोधो-
त्साहौ भयं तथा । जुगुप्सा विस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥' इति । सात्त्विकाश्च
पूर्वत एव उक्ताः ॥ अहमित्याद्यनुकूलो नायको दक्षिणो वा । उत्कण्ठिता नायिका ।
सखी दूतीत्वेन सहायिनी । तल्लक्षणम् – 'प्रवृत्तिकुशला धीरा गूढमन्त्रदृढप्रिया ।
स्वतन्त्रा विधवा दासी दुष्टा प्रनजिता सखी । मालाकारादिनारी च कार्या दूतीष्ट-
सिद्धये' ॥ ९ ॥ तदेव पूर्वसूचितदूषणमुद्भावयति - स्मरेति । हे उपेन्द्र, दैवतवै-
यहृद्य अश्विनीसुतसुन्दर ततोऽप्यधिक चिकित्सक, यदि त्वं पूर्वोक्तलक्षणां राधां निव-
त्तबाधां निवृत्ता बाधा यस्यास्तां न कुरुषे तर्हि वज्रादपि दारुणोऽसि कठिनोऽसि ।
कठिनः खलु कथमपि न स्निह्यतीति । किं विशिष्टां राधाम् । स्मरातुराम् । पुनः
किंभूताम् । रोगिणां चिकित्सा भविष्यतीत्याशङ्कयाह – त्वदङ्गेति । त्वदङ्गसङ्ग एवामृत-
रसाच्छृङ्गाररसाकि न जीवेत् । अपि तु जीवेदेव । अन्यथा त्वं चेन्न प्रसीदसि तदा तया
हस्तकोऽपि त्यक्तप्राय इत्यर्थः । संप्रति मूच्छितायास्तस्या वक्तमपारयन्त्या हस्तचेष्टयैव
सखीषु व्यवहारो भवति सोऽपि तथा त्यक्तव्य इत्यर्थः । अन्यत्रापि ज्वरे सति ज्वरी
रोमाञ्चति शीतादिना रोमाञ्चानिवाचरति । वेदनया शीतकमात्सीत्कारं करोति ।
मोहायत्किंचिद्वदति । उत्कम्पते कम्पयुक्तो भवति । ताम्यति विह्वलो भवति । उद्याति
वायुवेगाद्धावति । मूर्च्छति मूर्च्छा प्राप्नोति । एतादृश्यतनुज्वरे महति सान्निपातिके
ज्वरे कस्यचित्स्ववैद्य प्रतिमस्य प्रसादेन रसात्पारदादितो ज्वरी किं न जीवेत् । अपि तु
जीवेदेव । ननु सान्निपातिकज्वरे सहसा रसदानं निषिद्धमित्यत आह - अन्यथेति ।
अन्यप्रकारेण संहितामार्गेण हस्तकोऽपि वैद्यानां हस्तप्रक्रियाविशेषो 'हथवटी' इति लोके
प्रसिद्ध उक्तः । संहिताप्रक्रिययोपचारे कृते विशेष प्राप्ते रसदानमुचितमिति भावः । कचित्
'त्वत्तोऽन्यथा नान्तकः' इति पाठः । तदान्यथा यदि न प्रसीदसि त्वत्तवापेक्षयान्तको न, अपि
तु त्वमेवान्तक इत्यर्थः । रोमाञ्चति । द्वितीयव्याख्याने क्किप्प्रत्यये तलोपेऽपि रूपं बोध्यम् ।
'रसो गन्धे रसः खादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे'
इति विश्वः ॥ ९ ॥ स्मरातुरामिति । हे दैवतवैद्यहृद्य, दैवतानां यौ वैद्यावश्विनीकुमारौ
तद्वद्धृद्य मनोश, स्मरातुरां मदनरुग्णां त्वदङ्गसङ्ग एव यदमृतं तन्मात्रसाध्यां राषां
विमुक्तबाधां त्यक्तपीडां न कुरुषे । अतो हेतोरुपेन्द्र वज्रादपि दारुणोऽसि कठिनोऽसि ।
यतो वज्रमिन्द्रेण क्षिप्तमङ्गसंबद्धं सद्व्यथयति त्वं तु विश्लेषे सत्येव व्यथयसीति
१ विमुक्तबाधाम् ।
।
।
9
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri