This page has been fully proofread once and needs a second look.

७२
 
[ सर्गः ४
 
गीतगोविन्दकाव्यम्
 
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति

ध्यायत्युद्धमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।

[‍‍^१]तावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसा-
स्व

त्स्वर्वैद्य
प्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हेह[‍२]स्तकः ॥ ९ ॥
 

 
सर्वत्रोपमालंकारः ॥ ८ ॥ इदानीं भक्त्याख्या भावितमरणशंसन मिषेण तन्मनः प्ररो-
चयति—

चयति--<pratika>
सेति । </pratika>हे स्वर्वैद्य प्रतिम अश्विनीकुमारसदृशरूप । एतावत्यतनुज्वरे एता-

वतीमवस्थां प्राप्तवत्यतनुज्वरे । पक्षे अतनुज्वरे महति ज्वरे सति यदि प्रसीदसि

ततः सा वरतनुः तव रसात् शृङ्गारार्तिकत्किं न जीवेत् । अपि तु जीवेदेव । अन्यथा

चेन्न प्रसीदसि तदा अन्त एवान्तकः मरणमसि, मरणहेतुत्वात्त्वमेव मरणमिति ।

अथवा । हे स्वर्वैद्यप्रतिम अश्विनीकुमारतुल्य वैद्य, यदि प्रसीदसि ततस्ते रसात्पार-

दादिनिष्पन्नौषधात्सा वरतनुर्न जीवेत् ? अपि तु जीवेदेव । अन्यथा अन्तको यमो

नासि ? अपि तु यम एव । वरतनुरिति हेतुगर्भं विशेषणम् । तेन सा तनुरूपेति कृत्वा -

वश्यं जीवनीयेति तात्पर्यम् । सा राधा न केवलं बाह्यवृत्त्या त्वय्यनुरक्ता किंतु सा-

त्त्विकभावेनापि त्वदायत्तजीवितेति दर्शयन्त्याह । तानेव सात्त्विकान्भावान्विवृणोति-

सा रोमाश्ञ्चतीति । '"स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्य मथुमश्रुप्रलया-

वित्यष्टौ सात्विका मताः'" । सा राधा रोमाञ्चति । रोमाञ्चो विद्यते यस्य स रोमाञ्चः,

रोमाञ्चित इत्यर्थ:थः । तद्वदाचरति रोमाञ्चति । अकारोऽत्र मत्वर्थीयः । रोमाञ्चती त्या-

दिना रोमाञ्च उक्तः । सीत्करोतीति वैवर्ण्यम् । विलपत्युद्यातिभ्यामश्रु । उद्यातीति निः-

 
च्छ्रोतॄन्गायकांश्च । कीदृशम् । केशवपदमुपनीतम् ॥ ८ ॥ <pratika>सा रोमाञ्चतीति । </pratika>सा

राधा रोमाञ्चति रोमाण्यञ्चति प्रफुल्लयति । उद्गमयतीत्यर्थः । यद्वा रोमाञ्चोऽस्या

अस्तीत्यर्शआदित्वादच्प्रत्यये रोमाञ्चः सिद्ध इवाचरति रोमाञ्चयति । यद्वा रोमाञ्चपदं

लक्षणया रोमाञ्चवतीपरम् । तथा च ओजस्वीवाचरतीत्यादिवद्रोमाञ्चवतीवाचरतीत्यर्थः 1

अनेनाभिलाषः कथितः । सीत्करोति सीत्कारं करोति । अनेन चिन्तास्मृती कथिते ।

अथ च विलपति, स शूरः सुन्दरश्चेत्यादिनायकगुणान्विशेषेणालपति । अनेन गुणकीर्तन-

मुक्तम् । उत्कम्पते कथं विरहदुःखं सोढव्यमिति कम्पयुक्ता भवति । ताम्यति ग्लाना

भवति । ध्यायति तव ध्यानं करोति । एतैर्विशेषणैरुद्वेगावस्था कथिता । उद्भमति
भ्रमति
क्रीडादि स्थलं निर्दिशती भ्रमति । अनेन प्रलापः कथितः । प्रमीलति ध्यानकल्पिता.
-
लिङ्गनादिजन्यसुखभावेन चक्षुषी निमीलयति । अनेनोन्माद:दः कथितः । पतति कार्श्येन

स्थातुमशक्यतया भूमौ पतति । पश्चाद्भावनया त्वां दृष्ट्वा कथं कथमप्युद्याति त्वदभ्युद्गमर्न
नं
करोति । अनेन व्याधिः कथितः । ततो मूर्च्छति मूर्च्छाछां प्राप्नोति । अनेन जडता

कथिता । क्रियादीपकोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । ननु जडतापर्यन्तावस्था यदि

जातैव तदा किमङ्गसङ्गे नेत्यत आह - - <pratika>एतादृशीति । </pratika>हे स्वर्वैद्यावश्विनीकुमारौ तत्प्रतिम

तत्सदृश । एतादृश्यतनुज्वरे त्वं यदि प्रसीदसि तदा सा वरतनुः कमनीयदेहा ते तव
 

 

 
[^
'.] "एतादृश्यतनु'" इति पाठः । [‍^ '.] "थास्यन्तकः'" इति पाठान्तरम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri