This page has not been fully proofread.

७२
 
[ सर्गः ४
 
गीतगोविन्दकाव्यम्
 
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति
ध्यायत्युद्धमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसा-
स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हेस्तकः ॥ ९ ॥
 
सर्वत्रोपमालंकारः ॥ ८ ॥ इदानीं भक्त्याख्या भावितमरणशंसन मिषेण तन्मनः प्ररो-
चयति—सेति । हे स्ववैद्य प्रतिम अश्विनीकुमारसदृशरूप । एतावत्यतनुज्वरे एता-
वतीमवस्थां प्राप्तवत्यतनुज्वरे । पक्षे अतनुज्वरे महति ज्वरे सति यदि प्रसीदसि
ततः सा वरतनुः तव रसात् शृङ्गारार्तिक न जीवेत् । अपि तु जीवेदेव । अन्यथा
चेन्न प्रसीदसि तदा अन्त एवान्तकः मरणमसि, मरणहेतुत्वात्त्वमेव मरणमिति ।
अथवा । हे स्वर्वैद्यप्रतिम अश्विनीकुमारतुल्य वैद्य, यदि प्रसीदसि ततस्ते रसापार-
दादिनिष्पन्नौषधात्सा वरतनुर्न जीवेत् ? अपि तु जीवेदेव । अन्यथा अन्तको यमो
नासि ? अपि तु यम एव । वरतनुरिति हेतुगर्भ विशेषणम् । तेन सा तनुरूपेति कृत्वा -
वश्यं जीवनीयेति तात्पर्यम् । सा राधा न केवलं बाह्यवृत्त्या त्वय्यनुरक्ता किंतु सा-
त्त्विकभावेनापि त्वदायत्तजीवितेत दर्शयत्याह । तानेव सात्त्विकान्भावान्विवृणोति-
सा रोमाश्चतीति । 'स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवण्य मथुप्रलया-
वित्यष्टौ सात्विका मताः' । सा राधा रोमाञ्चति । रोमाञ्चो विद्यते यस्य स रोमाञ्चः,
रोमाञ्चित इत्यर्थ: । तद्वदाचरति रोमाञ्चति । अकारोऽत्र मत्वर्थीयः । रोमाञ्चती त्या-
दिना रोमाञ्च उक्तः । सीत्करोतीति वैवर्ण्यम् । विलपत्युद्यातिभ्यामश्रु । उद्यातीति निः-
च्छ्रोतॄन्गायकांश्च । कीदृशम् । केशवपदमुपनीतम् ॥ ८ ॥ सा रोमाञ्चतीति । सा
राधा रोमाञ्चति रोमाण्यञ्चति प्रफुल्लयति । उद्गमयतीत्यर्थः । यद्वा रोमाञ्चोऽस्या
अस्तीत्यर्शआदित्वादच्प्रत्यये रोमाञ्चः सिद्ध इवाचरति रोमाञ्चयति । यद्वा रोमाञ्चपदं
लक्षणया रोमाञ्चवतीपरम् । तथा च ओजस्वीवाचरतीत्यादिवद्रोमाञ्चवतीवाचरतीत्यर्थः 1
अनेनाभिलाषः कथितः । सीत्करोति सीत्कारं करोति । अनेन चिन्तास्मृती कथिते ।
अथ च विलपति, स शूरः सुन्दरश्चेत्यादिनायकगुणान्विशेषेणालपति । अनेन गुणकीर्तन-
मुक्तम् । उत्कम्पते कथं विरहदुःखं सोढव्यमिति कम्पयुक्ता भवति । ताम्यति ग्लाना
भवति । ध्यायति तव ध्यानं करोति । एतैर्विशेषणैरुद्वेगावस्था कथिता । उद्भमति
क्रीडादि स्थलं निर्दिशती भ्रमति । अनेन प्रलापः कथितः । प्रमीलति ध्यानकल्पिता.
लिङ्गनादिजन्यसुखभावेन चक्षुषी निमीलयति । अनेनोन्माद: कथितः । पतति कार्येन
स्थातुमशक्यतया भूमौ पतति । पश्चाद्भावनया त्वां दृष्ट्वा कथं कथमप्युद्याति त्वदभ्युद्गमर्न
करोति । अनेन व्याधिः कथितः । ततो मूर्च्छति मूर्च्छा प्राप्नोति । अनेन जडता
कथिता । क्रियादीपकोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । ननु जडतापर्यन्तावस्था यदि
जातैव तदा किमङ्गसङ्गे नेत्यत आह - एतादृशीति । हे स्वर्वैद्यावश्विनीकुमारौ तत्प्रतिम
तत्सदृश । एतादृश्यतनुज्वरे त्वं यदि प्रसीदसि तदा सा वरतनुः कमनीयदेहा ते तव
 

 
१ 'एतादृश्यतनु' इति पाठः । २ 'थास्यन्तकः' इति पाठान्तरम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri