This page has been fully proofread once and needs a second look.

सर्गः ४ ] रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
नयनविषयमपि किसलयतल्पम् ।
 

कलयति विहितहुताशविकल्पम् ॥ राधिका० ॥ ६ ॥

 
हरिरिति हरिरिति जपति सकामम् ।
 

विरहविहितमरणेव निकामम् ॥ राधिका० ॥ ७ ॥

 
श्रीजयदेवभणितमिति गीतम् ।
 

सुखयतु केशवपदमुपनीतम् ॥ राधिका० ॥ ८ ॥
 
-
 

 
विरहोद्रेको भवति । कमिव । बालशशिनमिव अलोलमिति बालचन्द्रो हि सायं

पाण्डुर्निः श्रीकश्च भवति । कपोलस्य हस्तेनाच्छादितत्वाद्वाबालशशिनोपमा ॥ ५ ॥ अपि

च । <pratika>नयनेति । </pratika>सा राधा किसलयतल्पं विहितहुताशविकल्पं कलयति । हुताश-

मिव जानाति । किंभूतं तल्पम् । नयनविषयमपि । अनुमितार्थे संसर्गे वा भ्रान्ति -

र्जा
यते । नयनविषयेऽपि भ्रमेर्निर्निमित्तत्वान्नयनयोस्त्वय्यारोपितलंत्वं द्योत्यते ॥ ६ ॥

अपि च । <pratika>हरिरितीति । </pratika>सा मत्सखी निकाममतिशयेन सकामं साभिलाषं

यथा स्यात्तथा हरिरिति जपति त्वन्नाम गृह्णन्त्यास्ते । किंभूता । विरहविहितमरणेव

विरहेण विहितं मरणं यस्याः सा । अर्थात्तवैव । अन्योऽपि विहितमरणो हरिरिति

हरिरिति जपत्येव ॥ ७ ॥ अपि च । <pratika>श्रीजयदेवेति । </pratika>श्रीजयदेवभणितं वर्णितं

हरेः कृष्णस्य गीतं सुखयतु । भक्तानित्यध्याहारः । किंविशिष्टं गीतम् । केशवपदमुप-

नीतं प्रापितम् । इदं श्रीजयदेवभणितं हरिगीतं केशवपदं सुखयतु । केशवः पदं

स्थानं यस्यासौ केशवपदः तं केशवपदं वैष्णवं सुखयतु । किंभूतं गीतम् ।

उपनीतमुप समीपं नीतं प्रापितमित्यर्थः । अत्र मात्राचतुष्पदी छन्दः 1
 

 
कथं नेतव्येति कपोलतले पाणिं कृत्वा सायं चिन्तयतीति भावः । कमिव । बालशशिन मिव

द्वितीया चन्द्र मिव मुखार्धस्य करतलच्छन्नत्वेनार्धदृश्यमानतया विरहपाण्डुतया
 

 

मुखस्य द्वितीया चन्द्र साम्यम् । इयमपि जडतावस्था ॥ ५ ॥ <pratika>नयनेति । </pratika>किं च सा

नयनविषयमपि चक्षुर्गोचरमपि किसलयतल्पं नवपल्लवशयनीयं विहितो हुताशनस्याग्ने-

र्
विकल्पः संशयो यत्र तादृशं कलयति । अत्र किसलयेषु तात्म्रत्वसंतापकत्वादिसमान-

धर्मदर्शनादग्नित्वसंशयः । इयं चोद्विग्नावस्था । तल्लक्षणं प्रागेवोक्तम् ॥ ६ ॥ <pratika>हरिरितीति ।
</pratika>
सा निकाममतिशयेन हरिरिति हरिरिति जपति । केव । विरहेण त्वद्विश्लेषेण

विधातुमारब्धं मरणं यया सा । कथम् । सकामं साभिलाषं यथा स्यात् तथा ।

अभिलाषादिषु नवस्ववस्थास्वतीतास्वपि त्वदौदासीन्यमालक्ष्य मरणाख्यापि दशम्यवस्था

अवश्यं भवितव्येति निश्चित्य प्रपन्नानां क्लेशहरणाद्धरिरित्युच्यत इति को वेद प्रसन्नस्तस्मिन्नपि

जन्मन्यागत्य मे क्लेशं हरिष्यति, मा आयातु तथापि '"अन्ते मतिः सा गतिः'
"
इति जन्मान्तरेऽपि स एव वल्लभो भूयादिति साभिलाषं नामान्तरं विहाय हरिरित्येवं

जपतीति भावः । विहितेत्यत्र '"आदिकर्मणि क्तः कर्तरि च'" इति क्तः 11 ७ ॥

<pratika>
श्रीजयदेवेति ।</pratika> इत्यमुना प्रकारेण जयदेवेन भणितमुच्चारितं सुखयतु । अर्था
 
CC
-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri