This page has been fully proofread once and needs a second look.

७०
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: ४
 
सरसमसृणमपि मलयजपङ्कम् ।
 

पश्यति विषमिव वपुषि सशङ्कम् ॥ राधिका० ॥ २ ॥

 
श्वसितपवनमनुपमपरिणाम् ।
 
हम् ।
मदनदहनमिव वहति सदाहम् ॥ राधिका० ॥ ३ ॥

 
दिशि दिशि किरति सजलकणजालम् ।
 

नयननलिनमिव विगलितनालम् ॥ राधिका० ॥ ४ ॥

 
त्यजति न पाणितलेन कपोलम् ।
 

बालशशिनमिव सायमलोलम् ॥ राधिका० ॥ ५ ॥
 

 

 
त्कृशतनोर्हारोऽपि भारोपमो भवति ॥१॥ अपि च । <pratika>सरसेति । </pratika>सा मत्सखी वपुषि

वर्तमानं मलयजपङ्कं सशङ्कं यथा स्यात्तथा विषमिव पश्यति । किंविधम् । सरसमसृणमपि

सरसं च तन्मसृणं च सरसमसृणं द्रवरूपात्स्निग्धकोमलमपि ॥२॥ अपि च । <pratika>श्वसि-

तेति । </pratika>सा मत्सखी श्वसितपवनं मदनदहन मिव कामाग्निमिव वहति । किंभूतम् । सदाहं

दाहसहितम् । विरहेणान्तस्तापो विद्यते तेन सहितम् । किंभूतम् । अनुपमपरि-

णाहम् । निःश्वासानामतिदीर्घत्वात् ॥ ३॥ अपि च । <pratika>दिशि दिशीति । </pratika>सा राधा

नयननलिनं दिशि दिशि किरति विक्षिपति । त्वद्दर्शनाकाङ्क्षयेति शेषः । सजलकण-

जालं जलकणसमूहेन सह वर्तमानम् । उत्प्रेक्षते । विगलितनालमिव विक्षिप्तं

नयनं विनालेन नलिनेनोपमीयते । अथवात्र उच्छूनत्वात्कज्जलरहितत्वाद्दीनत्वाच्

विनालेन कमलेनोपमीयते ॥ ४ ॥ <pratika>त्यजतीति । </pratika>सा राधा पाणितलेन कपोलं न

त्यजति । चिन्तावशात् । किंभूतं कपोलम् । अलोलम् । क्व । सायम् । सायं हि विशेष -
 
-
 
1
 

 
तत्र हेतुगर्भं विशेषणमाह - - <pratika>कृशतनुरिति । </pratika>कृशा तनुरङ्गं यस्याः सा ॥ १ ॥ किंच

<pratika>
सरसेति । </pratika>मलयजपङ्कं चन्दनपङ्कं वपुषि देहे सशङ्कं शङ्कासहितं यथा स्यादेवं विषमिव

पश्यति । कीदृशम् । सरसमसृणमपि । आर्द्रचिक्कणमपीत्यर्थः । '"पङ्कः कर्दमपापयो: '
योः"
इति विश्व: । 'वः । "मसृण:णः कर्कशे स्निग्धे'" इति मेदिनी ॥ ३ ॥ <pratika>श्वसितेति । </pratika>सा श्वसितपवनं

श्वासवायुं वहति धारयति । कीदृशम् । अनुपमपरिणाहं अनुपमः परिणाहो दैर्ध्य यस्य

तादृशम् । कमिव । मदनदहन मिव कामाग्निमिव । कीदृशम् । सदाहं दाहसहितम् ।
'

"
परिणाहो विशालता'" इत्यमरः । एषा चला व्याध्यवस्था कथिता । तल्लक्षणं तु

प्रागेवोक्तम् ॥ ३ ॥ <pratika>दिशि दिशीति । </pratika>सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति

क्षिपति । कीदृशम् । विगलितनालं विगलितस्त्रुटितो नालो दण्डो यस्य । पुनः कीदृशम् ।

सजलकणजालं जलकणजालैरश्रुजलकणिकासमूहै:हैः सहितम् । अत्रेवशब्दो वाक्यालंकारे ।

अत्र नेत्रस्य नलिनत्वेन निरूपणात्स्तिमितत्वं बोध्यम् । तेन जडता नवम्यवस्था

ध्वनिता । तदुक्तं रसार्णवसुधाकरे – '-- "यत्र ध्यायति निःशङ्कं जडता सा प्रकीर्तिता ।

अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥ अक्रीडाङ्गं कृति :तिः स्तम्भनि:निःश्वासकृशतादयः ॥'
"
इति ॥ ४ ॥ <pratika>त्यजतीति । </pratika>सा सायं संध्यासमये पाणितलेन करतलेन कपोलं न

त्यजति । कीदृशम् । अलोलमचञ्चलम् । अहस्तु यथाकथंचिन्नीतं रात्रिस्तु युगायमान
 
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri