This page has not been fully proofread.

७०
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: ४
 
सरसमसृणमपि मलयजपङ्कम् ।
 
पश्यति विषमिव वपुषि सशङ्कम् ॥ राधिका० ॥ २ ॥
श्वसितपवनमनुपमपरिणाम् ।
 
मदनदहनमिव वहति सदाहम् ॥ राधिका० ॥ ३ ॥
दिशि दिशि किरति सजलकणजालम् ।
 
नयननलिनमिव विगलितनालम् ॥ राधिका० ॥ ४ ॥
त्यजति न पाणितलेन कपोलम् ।
 
बालशशिनमिव सायमलोलम् ॥ राधिका० ॥ ५ ॥
 

 
त्कृशतनोर्हारोऽपि भारोपमो भवति ॥१॥ अपि च । सरसेति । सा मत्सखी वपुषि
वर्तमानं मलयजपङ्कं सशङ्कं यथा स्यात्तथा विषमिव पश्यति । किंविधम् । सरसमसृणमपि
सरसं च तन्मसृणं च सरसमसृणं द्रवरूपात्स्निग्धकोमलमपि ॥२॥ अपि च । श्वसि-
तेति । सा मत्सखी श्वसितपवनं मदनदहन मिव कामानिमिव वहति । किंभूतम् । सदाहं
दाहसहितम् । विरहेणान्तस्तापो विद्यते तेन सहितम् । किंभूतम् । अनुपमपरि-
णाहम् । निःश्वासानामतिदीर्घत्वात् ॥ ३॥ अपि च । दिशि दिशीति । सा राधा
नयननलिनं दिशि दिशि किरति विक्षिपति । त्वद्दर्शनाकाङ्क्षयेति शेषः । सजलकण-
जालं जलकणसमूहेन सह वर्तमानम् । उत्प्रेक्षते । विगलितनालमिव विक्षिप्तं
नयनं विनालेन नलिनेनोपमीयते । अथवात्र उच्छूनत्वात्कज्जलरहितत्वाद्दीनत्वाच
विनालेन कमलेनोपमीयते ॥ ४ ॥ त्यजतीति । सा राधा पाणितलेन कपोलं न
त्यजति । चिन्तावशात् । किंभूतं कपोलम् । अलोलम् । व । सायम् । सायं हि विशेष -
 
-
 
1
 
तत्र हेतुगर्भं विशेषणमाह - कृशतनुरिति । कृशा तनुरङ्गं यस्याः सा ॥ १ ॥ किंच
सरसेति । मलयजपकं चन्दनपकं वपुषि देहे सशङ्कं शङ्कासहितं यथा स्यादेवं विषमिव
पश्यति । कीदृशम् । सरसमसृणमपि । आर्द्रचिक्कणमपीत्यर्थः । 'पङ्कः कर्दमपापयो: '
इति विश्व: । 'मसृण: कर्कशे स्निग्धे' इति मेदिनी ॥ ३ ॥ श्वसितेति । सा श्वसितपवनं
श्वासवायुं वहति धारयति । कीदृशम् । अनुपमपरिणाहं अनुपमः परिणाहो दैर्ध्य यस्य
तादृशम् । कमिव । मदनदहन मिव कामाग्निमिव । कीदृशम् । सदाहं दाहसहितम् ।
'परिणाहो विशालता' इत्यमरः । एषा चला व्याध्यवस्था कथिता । तल्लक्षणं तु
प्रागेवोक्तम् ॥ ३ ॥ दिशि दिशीति । सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति
क्षिपति । कीदृशम् । विगलितनालं विगलितस्रुटितो नालो दण्डो यस्य । पुनः कीदृशम् ।
सजलकणजालं जलकणजालैरश्रुजलकणिकासमूहै: सहितम् । अत्रेवशब्दो वाक्यालंकारे ।
अत्र नेत्रस्य नलिनत्वेन निरूपणात्स्तिमितत्वं बोध्यम् । तेन जडता नवम्यवस्था
ध्वनिता । तदुक्तं रसार्णवसुधाकरे – 'यत्र ध्यायति निःशङ्कं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्य शिथिलाङ्गता ॥ अक्रीडाङ्गं कृति : स्तम्भनि:श्वासकृशतादयः ॥'
इति ॥ ४ ॥ त्यजतीति । सा सायं संध्यासमये पाणितलेन करतलेन कपोलं न
त्यजति । कीदृशम् । अलोलमचञ्चलम् । अहस्तु यथाकथंचिन्नीतं रात्रिस्तु युगायमान
 
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri