This page has not been fully proofread.

सर्गः ४ ] रसिकप्रिया-
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ १० ॥
देशाख्यरागैकतालीतालाभ्यां गीयते । प्र० ॥ ९ ॥
स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरिव भारम् ।
 
राधिका तव विरहे केशव ॥ ध्रुवम् ॥ १ ॥
 
रसमञ्जर्याख्यटीकाद्वयोपेतम् ६९
 
अत्रावासशब्देन निलय उच्यते । प्रियसखीनां माला श्रेणिः जालायते । इतस्ततो गमनाय
तद्रोधकत्वात् । वा प्रियसखीदत्ता मालापि जालायते । हरिणीबन्धनार्थ जालं
क्षिप्यते तद्वदाचरति । अपि च तापोऽपि देहतापोऽपि श्वसितेन निःश्व-
सितेन दावाग्निज्वालावलीवाचरति । एवं तस्या हरिणीत्वं निरूप्य खेदमभिनय-
न्त्याह । हा इति कष्टे । सा मत्सखी कथं वर्तते, यतः कामोऽपि शार्दूल-
विक्रीडितं विरचयन् यमायते यम इवाचरति । शार्दूलः किल हरिणीं हन्तीत्युक्तिः ।
अत्र च हरिणीवन्मत्सख्यास्त्वयि दृढानुरागोऽस्ति । निःस्नेहे स्नेहवत्तया पशुरूप-
त्वेन हरिणीरूपमौचितीमावहति । निःस्नेहेऽस्नेहवति सैवेत्यवधारणार्थः । वृत्तमपि
शार्दूलविक्रीडितम् । अत्र लुप्तोपमा । विरोधाभासश्चालंकारः ॥ १० ॥ इदानीं
राधासखी स्वसखीविरहचेष्टितं देवे विनिवेदयति । पूर्वं ध्रुवपदं व्याक्रियते ।
राधिका इति । हे केशव, राधिका तव विरहे वर्तते । अनुकम्प्या राधा राधिका ।
तस्या अनुकम्पां विधेही त्यनुकम्पार्थेन द्योत्यते । इति ध्रुवः ॥ विरहे वर्तमाना राधा
किं किं करोतीत्यपेक्षायां पदानामारम्भः । स्तन विनिहित मिति । हे केशव,
सा कृशतनुः स्तनविनिहितमप्युदारं मनोहरं हारं भारमिव मनुते विरहाधिक्या-
ग्निर्वायुना प्रचण्डो भवतीति ध्वनिः । सापि हरिणीरूपायते हरिणीवदाचरति । हा कष्टम् ।
कथम् । कन्दपऽपि कामोऽपि परानन्दजनकोऽपि त्वद्विरहे यमायते कृतान्त इवाचरति ।
किं कुर्वन् । शार्दूलस्य व्याघ्रस्य विक्रीडितं क्रीडां कुर्वन् । यथा हरिणी समन्ततः
प्रदीप्तदावाग्निज्वालयोद्विग्ना व्याघ्रेण त्रासिता अग्रे व्याघजालं विततं पश्यन्ती दशदिशं
चकितं विलोकमाना क्कापि न निर्वृतिं लभते तथेयमपि व्याघ्ररूपेण कामेन त्रासिता
सखीष्वावासेषु कापि निर्वृतिं न लभत इति भावः । अत्र शार्दूलविक्रीडितं छन्द इत्यपि
ध्वनितम् । अत्र प्रथमपादे उद्वेगाख्यावस्था कथिता । तलक्षणं प्राक् । रोषे चाष्टमी
व्याध्यवस्था कथिता । तदुक्तम् – 'अभीष्टसंगमाभावाव्याधिः संतापलक्षणः । अत्र
संतापनिःश्वासौ शीतवस्तुनिषेवणम् ॥ नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥' इति ।
शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च ' इति विश्वः ॥ १९ ॥ पुनरपि व्याधि-
रूपामष्टमीमवस्थां संप्राप्य तां च गीतेन कथयति — स्तनेति । गीतस्यास्य देशाख्यरागः ।
रूपकताल: । गीतार्थस्तु — हे केशव, तव विरहे सा राधिका अनुकम्प्या राधा
स्तन विनिहितमपि स्तनयोरुपरि हठात्सखीजनैधृतमप्युदरमुत्कृष्टं हारमतिभारं मनुते ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri