This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
 

हरिविरह।हाकुलबल्लवयुवतिसखीवचनं
 
[ सर्गः ४
 
पठनीयम् ॥ सा वि० ॥ ९ ॥

 
आवासो विपिनायते प्रियसखीमालापि जालायते

ता[^१]पोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
 

 

 
निगदति । अत्रापिरेवार्थे । इदमिति किम् । अहं तव चरणे निपतिता । सपदि

मयि विषये त्वयि विमुखे सति सुधानिधिरपि सुधानिधानमपि तनुदाहं शरी-

रदाहं तनुते । वा सुधानिधिश्चन्द्रोऽप्यतनुदाहं स्मरतापं तनोति । अतनु

यथा स्यादिति च । अत्रातिशयोक्तिरलंकारः ॥ ८ ॥ <pratika>श्रीजयदेवेति ।</pratika> हे

वैष्णवाः, इदं श्रीजयदेवभणितं यदि मनसाधिकं नटनीयमभिनेतव्यम् ।

नटशब्देनात्र नाट्यस्याभिनयप्राधान्यादभिनयो विवक्षितः । अथवा नटनी मिया-

स्वादनीयम् । रसनीयमिति यावत् । '"नाट्यशब्दो रसे मुख्यः'" इति भरतीये ।

किंभूतमिदम् । सखीमधिकृत्य वर्तमानम् । तर्हि हरिविरहाकुलबल्लवयुवत्या राधायाः

सख्याः वचनं पठनीयम् । जयदेवभणितिष्त्रिविदमेव सारमित्यर्थः ॥ ९ ॥ '"प्रतिमण्ठक-

तालेन रागे देशाङ्कसंज्ञिते । पदात्तुर्याक्षरैर्युक्तः पदात्संगमतस्तथा ॥ आकारोपचिता-

लापगमकाकुलविग्रहः । आभोगात्तेनकैः पाटैः प्रचुरैरतिपेशलः ॥ हरिवल्लभपूर्वोऽय-

मशोकपल्लवः स्मृतः ॥" इति हरिवल्लभाशोकपल्लवनामाष्टमः प्रबन्धः ॥ ८ ॥

इदानीं किंबहुना । मत्सख्यास्त्वदृते त्वयि विपरीते सर्वमेव विपरीतमित्याह -
-
<pratika>
आवास इति । </pratika>हे माधव, हन्त इति खेदे । सा मत्सखी त्वद्विरहेण हरिणीरूपाय ते
ते
मृगीरूपमिवाचरति । स्वभावतो विरहेण पाण्डुवर्णो भवत्येवेति तथाविधं रूपमधि-

कृत्य हरिणीरूपेणोपमीयत इत्युक्ते कथमिति प्रश्ने हरिणीविशेषणेनाह । आवासो

विपिनायते । हरिण्यः किल वने वसन्ति । तस्या मे सख्या आवासो विपिनायते ।

 
त्वयि विमुखे पराङ्मुखे सति सुधानिधिरमृतनिधिश्चन्द्रोऽपि तनुदाहं मच्छरीरसंतापं तनुते

विस्तारयति । त्वं माया लक्ष्म्या धवः स्वामी । चन्द्रस्य समुद्रोत्पत्तित्वाल्लक्ष्म्याः

सहोदर इति । त्वयि निकट स्थिते सति सपत्न्या अपि मे किमपि न कर्तुं शक्नोति । त्वयि

प्रतिकूले च सति स्वभगिनीसापत्न्यं मयि स्मरन्सुधानिधिरपि मे तनुदाहं तनुते । इति

माधवपदेन ध्वनितम् । सुधानिधेस्तापकारित्वं विरुद्धमिति विरोधनामायमलंकारः ॥ ८ ॥

<pratika>
श्रीजयदेवेति । </pratika>जयदेवभणितं जयदेवकवित्वमतिशयितं यदि मनसा नटनीयं नर्तितव्यं

तदा इदं हरिविरहेणाकुला व्याकुला या बल्लवयुवतिस्तया सखी दूतीत्वेन प्रेषिता तस्या

वचनं पठनीयम् । इयं विरहोत्कण्ठिता नायिका । तल्लक्षणं तु प्रागेवोक्तम् ॥ ९ ॥

सा त्वां विना कुत्रापि न निर्वृतिं लभत इत्यत आह
-- <pratika>आवास इति ।</pratika> तस्यास्त्वद्विरहेणा-

वासो मन्दिरं विपिनायतेऽरण्य मिवाचरति । यदा त्वद्विश्लेषदुःखासहिष्णुतया जीवितमपि

व्यक्तुं प्रवृत्ता भवति तदा सखीभिर्निवार्यत इति स्वच्छन्द्रव्यवहार प्रतिबन्धकतया

जालवदाचरतीति भावः । अथ तापो विरहजनितस्तापो निःश्वसितेन निःश्वासेन

दावदहनज्वालाया दावाग्निशिखाया यः कलापः समूहः स इवाचरति । अपरोऽपि दावा-

 

 
[^
'.] "तापो निःश्वसितेन'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri