This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
 
हरिविरह।कुलबल्लवयुवतिसखीवचनं
 
[ सर्गः ४
 
पठनीयम् ॥ सा वि० ॥ ९ ॥
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
 

 
निगदति । अत्रापिरेवार्थे । इदमिति किम् । अहं तव चरणे निपतिता । सपदि
मयि विषये त्वयि विमुखे सति सुधानिधिरपि सुधानिधानमपि तनुदाहं शरी-
रदाहं तनुते । वा सुधानिधिश्चन्द्रोऽप्यतनुदाहं स्मरतापं तनोति । अतनु
यथा स्यादिति च । अत्रातिशयोक्तिरलंकारः ॥ ८ ॥ श्रीजयदेवेति । हे
वैष्णवाः, इदं श्रीजयदेवभणितं यदि मनसाधिकं नटनीयमभिनेतव्यम् ।
नटशब्देनात्र नाट्यस्याभिनयप्राधान्यादभिनयो विवक्षितः । अथवा नटनी मिया-
स्वादनीयम् । रसनीयमिति यावत् । 'नाट्यशब्दो रसे मुख्यः' इति भरतीये ।
किंभूतमिदम् । सखीमधिकृत्य वर्तमानम् । तर्हि हरिविरहाकुलबल्लवयुवत्या राधायाः
सख्याः वचनं पठनीयम् । जयदेवभणितिष्त्रिदमेव सारमित्यर्थः ॥ ९ ॥ 'प्रतिमण्ठक-
तालेन रागे देशाङ्कसंज्ञिते । पदात्तुर्याक्षरैर्युक्तः पदात्संगमतस्तथा ॥ आकारोपचिता-
लापगमकाकुलविग्रहः । आभोगात्तेनकैः पाटैः प्रचुरैरतिपेशलः ॥ हरिवल्लभपूर्वोऽय-
मशोकपल्लवः स्मृतः ॥" इति हरिवल्लभाशोकपल्लवनामाष्टमः प्रबन्धः ॥ ८ ॥
इदानीं किंबहुना । मत्सख्यास्त्वदृते त्वयि विपरीते सर्वमेव विपरीतमित्याह-
आवास इति । हे माधव, हन्त इति खेदे । सा मत्सखी त्वद्विरहेण हरिणीरूपाय ते
मृगीरूपमिवाचरति । स्वभावतो विरहेण पाण्डुवर्णो भवत्येवेति तथाविधं रूपमधि-
कृत्य हरिणीरूपेणोपमीयत इत्युक्ते कथमिति प्रश्न हरिणीविशेषणेनाह । आवासो
विपिनायते । हरिण्यः किल वने वसन्ति । तस्या मे सख्या आवासो विपिनायते ।
त्वयि विमुखे पराङ्मुखे सति सुधानिधिरमृतनिधिश्चन्द्रोऽपि तनुदाहं मच्छरीरसंतापं तनुते
विस्तारयति । त्वं माया लक्ष्म्या धवः स्वामी । चन्द्रस्य समुद्रोत्पत्तित्वालक्ष्म्याः
सहोदर इति । त्वयि निकट स्थिते सति सपत्या अपि मे किमपि न कर्तुं शक्नोति । त्वयि
प्रतिकूले च सति स्वभगिनीसापत्यं मयि स्मरन्सुधानिधिरपि मे तनुदाहं तनुते । इति
माधवपदेन ध्वनितम् । सुधानिस्तापकारित्वं विरुद्धमिति विरोधनामायमलंकारः ॥ ८ ॥
श्रीजयदेवेति । जयदेवभणितं जयदेवकवित्वमतिशयितं यदि मनसा नटनीयं नर्तितव्यं
तदा इदं हरिविरहेणाकुला व्याकुला या बलवयुवतिस्तया सखी दूतीत्वेन प्रेषिता तस्या
वचनं पठनीयम् । इयं विरहोत्कण्ठिता नायिका । तलक्षणं तु प्रागेवोक्तम् ॥ ९ ॥
सा त्वां विना कुत्रापि न निर्वृतिं लभत इत्यत आह
— आवास इति । तस्यास्त्वद्विरहेणा-
वासो मन्दिरं विपिनायतेऽरण्य मिवाचरति । यदा त्वद्विश्लेषदुःखासहिष्णुतया जीवितमपि
व्यक्तुं प्रवृत्ता भवति तदा सखीभिर्निवार्यत इति स्वच्छन्द्रव्यवहार प्रतिबन्धकतया
जालवदाचरतीति भावः । अथ तापो विरहजनितस्तापो निःश्वसितेन निःश्वासेन
दावदहनज्वालाया दावाग्निशिखाया यः कलापः समूहः स इवाचरति । अपरोऽपि दावा-

 
१ 'तापो निःश्वसितेन' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri