This page has been fully proofread once and needs a second look.

जगन्नाथाज्ञयेत्युक्त्वा यन्मां वश्ञ्चयसि स्फुटम् ।

कुत एवं मतिभ्रंशो गच्छ गच्छ यथासुखम् ॥

 
आनाय्य पूजकं तत्तु देवशर्मातियत्नतः ।

निवेदयामास मुहुस्तां च न स्वीचकार सः ॥

 
ततः स्वतनयां तत्र स्थापयित्वा द्विजोऽब्रवीत्

अयं तु ते पतिः पुत्रि त्वया पूज्यश्च सर्वदा ।

पतिसेवापरा नारी सुखमक्षय्यम श्नुते ॥

 
इत्युक्त्वा तां देवशर्मा ययौ पत्न्या सहाश्रमम् ।

सापि कन्या स्थिता तत्र जयदेवस्य संनिधौ ॥

 
जयदेवस्तु तां प्राह गतौ तौ पितरौ तव ।

त्वां विहाय त्वमप्येका कथं स्थास्यसि कानने ॥

 
अथ पद्मावती प्राह भगवन्किकिं ब्रवीषि भोः ।

स्वमातृपितृदेयां वै स मां तुभ्यं ददौ पिता ॥

 
अतस्तवाहं त्वं चेन्मामतिभक्तामनागसम् ।

त्यक्ष्यसीत्यत्र किं कुर्या नामेका त्वयि स्थिते ॥

 
पद्मावतीवचः श्रुत्वा जयदेवोऽप्यचिन्तयत् ।

अनया सत्यमुक्तं हि त्यागे दोषो महान्मम ॥

 
तस्मादस्याः पितुर्गेहं गत्वाहमनया सह ।

इमां प्रतिग्रहीष्यामि विधिना नात्र संशयः ॥

 
इति निश्चित्य मनसा जयदेव उवाच ताम् ।

एह्यागच्छ मया सार्धं गच्छामि त्वत्पितुर्गृहम् ।

विधिना तत्र ते पाणिं ग्रहीष्यामि न संशयः ॥

 
इत्येवं वचनं श्रुत्वा प्राह पद्मावती पुनः ।

त्वदाज्ञाकरणं धर्म इत्येवं मां पिताब्रवीत् ॥

 
अतो महाप्रसादोऽयमित्युक्त्वाग्रे स्थिताभवत् ।

जयदेवस्तया सार्धं देवशर्मगृहं गतः ॥

 
तमुक्त्वा गद्गदं सर्वं प्रतिगृह्य यथाविधि ।

पद्मावत्या तया <error>सार्धंमाजगाम</error><fix>सार्धमाजगाम</fix> निजं गृहम् ॥

 
उभौ तौ दम्पती तत्र एकप्राणौ बभूवतुः ।

नृत्यन्तौ चापि गायन्तौ श्रीकृष्णार्चनतत्परौ ॥
 

 
एकदा जयदेवस्तु मनस्येवमचिन्तयत् ।

स्वयंकृतेन गीतेन तोषयिष्याम्यहं हरिम् ॥

 
इति निश्चित्य निर्माय गीतगोविन्दनामकम् ।

गायंस्तु देवदेवाग्रे पत्न्या सह ननर्त ६ ॥
ह ॥
 
एवं नित्यव्रतं तस्य तत्रैकस्मिन्दिने पुनः ।

बबन्ध रासचरितं कृष्णोक्तौ राधिकां प्रति ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri