This page has not been fully proofread.

जगन्नाथाज्ञयेत्युक्त्वा यन्मां वश्चयसि स्फुटम् ।
कुत एवं मतिभ्रंशो गच्छ गच्छ यथासुखम् ॥
आनाय्य पूजकं तत्तु देवशर्मातियत्नतः ।
निवेदयामास मुहुस्तां च न स्वीचकार सः ॥
ततः स्वतनयां तत्र स्थापयित्वा द्विजोऽब्रवीत्
अयं तु ते पतिः पुत्रि त्वया पूज्यश्च सर्वदा ।
पतिसेवापरा नारी सुखमक्षय्यम ते ॥
इत्युक्त्वा तां देवशर्मा ययौ पत्न्या सहाश्रमम् ।
सापि कन्या स्थिता तत्र जयदेवस्य संनिधौ ॥
जयदेवस्तु तां प्राह गतौ तौ पितरौ तव ।
त्वां विहाय त्वमप्येका कथं स्थास्यसि कानने ॥
अथ पद्मावती प्राह भगवन्कि ब्रवीषि भोः ।
स्वमातृपितृदेयां वै स मां तुभ्यं ददौ पिता ॥
अतस्तवाहं त्वं चेन्मामतिभक्तामनागसम् ।
त्यक्ष्यसीत्यत्र किं कुर्या नाइमेका त्वयि स्थिते ॥
पद्मावतीवचः श्रुत्वा जयदेवोऽप्यचिन्तयत् ।
अनया सत्यमुक्तं हि त्यागे दोषो महान्मम ॥
तस्मादस्याः पितुर्गेहं गत्वाहमनया सह ।
इमां प्रतिग्रहीष्यामि विधिना नात्र संशयः ॥
इति निश्चित्य मनसा जयदेव उवाच ताम् ।
एह्यागच्छ मया सार्धं गच्छामि त्वत्पितुर्गृहम् ।
विधिना तत्र ते पाणिं ग्रहीष्यामि न संशयः ॥
इत्येवं वचनं श्रुत्वा प्राह पद्मावती पुनः ।
त्वदाज्ञाकरणं धर्म इत्येवं मां पिताब्रवीत् ॥
अतो महाप्रसादोऽयमित्युक्त्वाग्रे स्थिताभवत् ।
जयदेवस्तया सार्धं देवशर्मगृहं गतः ॥
तमुक्त्वा गद्गदं सर्वं प्रतिगृह्य यथाविधि ।
पद्मावत्या तया सार्धंमाजगाम निजं गृहम् ॥
उभौ तौ दम्पती तत्र एकप्राणौ बभूवतुः ।
नृत्यन्तौ चापि गायन्तौ श्रीकृष्णार्चनतत्परौ ॥
 
एकदा जयदेवस्तु मनस्येवमचिन्तयत् ।
स्वयंकृतेन गीतेन तोषयिष्याम्यहं हरिम् ॥
इति निश्चित्य निर्माय गीतगोविन्दनामकम् ।
गायंस्तु देवदेवाग्रे पत्नया सह ननर्त ६ ॥
एवं नित्यव्रतं तस्य तत्रैकस्मिन्दिने पुनः ।
बबन्ध रासचरितं कृष्णोक्तौ राधिकां प्रति ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri