This page has been fully proofread once and needs a second look.

सर्ग: ४ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।

विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ सा वि० ॥७॥

 
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।

त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ सा वि० ॥ ८ ॥
 

 
करे नवचूतशरं विधाय । अत्र चूतपुष्पधारणेन पूजोपयुक्ता । अनन्तरं प्रणाम

उचित एव । पीडाकरे कामे स्वरक्षार्थमर्चनप्रणामयोरपि युक्तत्वमेव । अयं च

विरहिणीव्यापार उक्तः । तदुक्तं भरते - '- "देवतापूजनं कुर्याद्दद्याद्लिभुजे बलिम् ।

लिखेत्कान्तप्रतिकृतिं पाठयेच्छुकसारिकाः ॥ गणयेच्चावधिदिनं गीतं गायेत्तदङ्कितम् ।

एवं विधविनोदेन नयेत्कालं वियोगिनी'" ॥ च पुनः अधः वाहनदेशे मकरं विनिधाय

एवं साङ्गोपाङ्गकामरूपं भवन्तं विधाय मा दहेति प्रणमति । अत्र लिखित्वा प्रणमतीति

वक्तव्ये विरहिणो हि कृत्याकृत्यज्ञा न भवन्तीति पौनःपुन्येन यत्र तत्र गच्छन्तीति

द्योतनार्थम् । अत्रोपमालंकारः ॥ ६ ॥ अपि च । <pratika>ध्यानलयेनेति ।</pratika> हे कृष्ण,

सा मत्सखी भवन्तं विलिखति । किंविशिष्टं भवन्तम् । अतीव दुरापं दूतीप्रेष-

णादिना दुरापं दुर्लभम् । किं कृत्वा विलिखति । ध्यानलयेन ध्यानैकाग्रतया

पुरोऽग्रे परिकल्प्य । लिखित्वा च दृष्टो मयेति हसति । आश्लेषादिकं न करोतीति

विषीदति । तन्न कुरुतां नाम । प्रेम्णा दृष्टिमपि न प्रयच्छतीति रोदिति । दृष्टायामपि

नास्य संतोष इति चञ्चति स्थानात्स्थानान्तरं गच्छति । पुनरागत्य दृष्टश्चेत्सर्वमेव

भविष्यतीत्याशयेन तापं मुञ्चति इति । अत्र दीपकमलंकारः ॥ ७ ॥ <pratika>प्रतिपद-

मिति । </pratika>हे माधव, सा मत्सखी प्रतिपदं प्रतिचरणन्यासं प्रतिस्थानं वा इदमेव
 

 
धृत्वा प्रणमति । कुसुमशरो मकरवानस्त्वमेवासीत्यनेन चूतरूपपुष्पशरेण किमिति मां

संतापयसीति प्रणम्य त्वां याचत इति भावः ॥ '"मृगनाभिर्मृगमदः कस्तूरी गन्धकेशरे'
"
इति हारावलिः ॥ ६ ॥ <pratika>ध्यानेति । </pratika>ध्यानं चिन्तनं तत्र यो लयस्तत्परत्वं तेनातीवाति-

शयेन दुरापं दुःखेन प्राप्यं भवन्तं पुरोऽग्रे परिकल्प्य सा राधा विलपति । शठ,

इयत्कालं याभिः सह क्रीडां कृतवानसि तत्रैव गच्छेत्याद्युक्त्वा रोदिति । भाववशादा-

गतोऽप्यतिनिर्भर्त्सनात्को वेद पुनर्यातीत्यनुरागप्रकटनाय सति । पश्चात्पुरः स्थितोऽप्ययं

मामालिङ्गनादिना न संभावयतीति विषीदति विषादं प्राप्नोति । पुनः कथमयं वश्यः

स्यादिति विचार्य रोदिति । यतो नायिकानां नायकस्य पुरतो रोदनं परमवशीकरणं

जायत इति । तदुक्तम् – '-- "रुदितमुदितमात्रं योषितां विग्रहेषु'" इति । पश्चाद्रोदने तदौ-

दासीन्यमालक्ष्य गच्छन्तीं मामयमनुनेष्यतीत्यभिप्रायेण चञ्चति स्थानान्तरं गच्छति ।

पश्चाद्ध्यानेनैव तत्सङ्गपरिकल्पनया तापं मुञ्चति । किलकिञ्चिताख्यो वायं भावः । तदुक्तं

दशरूपके –'-- "क्रोधाश्रुहृर्षभीत्यादे:देः संकरः किलकिञ्चितम्'" इति । इयमप्युन्मादाख्यावस्था ।

अलंकारश्चेह दीपकमिति । तदुक्तम् – '-- "सैव क्रियासु बहीषु कारकस्येति दीपकम्' इति ।
अस्यार्थः—
बह्वीषु कारकस्येति दीपकम्" इति ।
अस्यार्थः -- बह्वीषु
क्रियासु कारकस्य सकृद्वृत्तिरेव दीपकमिति ॥ ७ ॥ <pratika>प्रतिपदमिति ।
</pratika>
प्रतिपदमितस्ततश्चलन्ती पदं पदं प्रतिपदं निगदति । हे माधव, तव चरणेऽहं पतिता
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri