This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
वहति च च[ सर्गः ४
 
वहति च चॅ
^१]लितविलोचनजलभरमाननकमलमुदारम् ।

विधुमिव विकट विधुन्तुददन्तदलनगलितामृतधारम् ॥ सा वि० ५

 
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
 

प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ सा वि० ६
 

 
अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम् । किमिव । कुसुमविशिखशरतल्पं

व्रतमिव । किमर्थम् । तव परिरम्भसुखाय । अन्योऽपि सुखैषी व्रतमाचरति । दुर्लभ
-
भवदाश्लेषावाध्प्त्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः । अ-

त्रोत्प्रेक्षालंकारः ॥४॥ <pratika>वहतीति । </pratika>सा आननकमलं वहति । किंभूतम् । चलितविलो-

चनजलभरम् । चलितः संभक्तः विलोचनेन जलभरो यत्र । वा चलिते संभक्ते विलो-

चने जलभरेण यत्र । अथवा चलितविलोचन एव जलधरो मेघो यत्रेति पाठः ।

किं विशिष्टं आननकमलम् । उदारं मनोहरम् । कमिव । विधुमिव । किंभूतं विधुम् ।

विकटा विकराला विधुन्तुददन्तास्तैर्दलनेन पीडनेन गलितामृतधारा यस्मिन् । अनेन

भवद्विरहेणानवरतं रुदत्या मुखमिन्दुकान्तितिं बिभर्तीत्याशयः । असितवर्णमभूदित्यर्थः ।

अनोपमालंकारः ॥५॥ अपि च । <pratika>विलिखतीति । </pratika>हे कृष्ण, सा मत्सखी रहसि एकान्ते

कुरङ्गमदेन भवन्तं विलिखति । किंभूतं भवन्तम् । असमशरभूतं कुसुमशरतामापन्न-

म् । वामेव दुर्लभत्वात् वाहकत्वेन कुसुमशरोऽयमिति बुद्ध्या । किं कृत्वा विलिखति ।
 

 
शयनीयं पुष्पशय्यां करोति रचयति । कीदृशम् । अनल्पविलासकलायां बहुतरक्रीडा-

कलायां कमनीयं काङ्क्षणीयम् । न दैवस्य गतिशीर्ज्ञातुं शक्यते । को वेदाकस्मादेव भवाना-

गच्छतीत्याशयेन कुसुमशय्यास्था त्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः । किमिव करोति ।

कुसुम विशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्या तत्र तत्स्वरूपं

व्रतमिव । तव परिरम्भसुखाय तवालिङ्गनजन्यसुखप्राप्तये करोति । '"तल्पं च शयनी ये

स्यात्तुल्यवृन्दकलत्रयोः'" इति विश्वः । एतैस्त्रिभिः पदैरुद्वेगाख्या प्रपञ्चावस्था कथिता ।

तल्लक्षणं प्रागेवोक्तम् ॥ ४ ॥ <pratika>वहतीति । </pratika>सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति

धारयति । कीदृशम् । वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जल.
-
धरौ मेघौ यत्र तादृशम् । अत्र निरन्तराश्रुवर्षित्वेन नेत्रयोर्जलधरत्वेन निरूपणम् ।

कमिव । विधुमिव । कीदृशं विधुम् । विकटा:टाः कराला विशाला वा ये विधुन्तुदस्य राहो-

र्दन्तास्तैर्दलनं खण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम् । अत्र मुख
स्य
विधुना नेत्रजलस्य चामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या । 'विकट:"विकटः सुन्दरे प्रोक्तो

विशालविकरालयोः'" इति विश्व: । '"तमस्तु राहुः स्वर्भानुः सैसैंहिकेयो विधुन्तुदः'" इत्यमरः ।

इयं चोन्मादाख्या सप्तमावस्था । तदुक्तं शृङ्गारतिलके – '-- "श्वासः प्रणोदनोत्कम्पवसुधाश्ले-

षणैरपि । व्यापारो जायते यत्र स उन्माद:दः स्मृतो यथा ॥'" इति ॥ ५ ॥ किंच

<pratika>
विलिखतीति । </pratika>रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशम् । असम-

शरभूतं कामस्वरूपिणं तव करे नवचूतं शरं निधाय तवाध:धः आसनस्थाने मकरं निधाय
 

 
[^
'.] "वलितविलोचनजलधरम्'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri