This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्गः ४
 
वहति च चॅलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकट विधुन्तुददन्तदलनगलितामृतधारम् ॥ सा वि० ५
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
 
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ सा वि० ६
 
अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम् । किमिव । कुसुमविशिखशरतल्पं
व्रतमिव । किमर्थम् । तव परिरम्भसुखाय । अन्योऽपि सुखैषी व्रतमाचरति । दुर्लभ
भवदाश्लेषावाध्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः । अ-
त्रोत्प्रेक्षालंकारः ॥४॥ वहतीति । सा आननकमलं वहति । किंभूतम् । चलितविलो-
चनजलभरम् । चलितः संभक्तः विलोचनेन जलभरो यत्र । वा चलिते संभक्त विलो-
चने जलभरेण यत्र । अथवा चलितविलोचन एव जलधरो मेघो यत्रेति पाठः ।
किं विशिष्टं आननकमलम् । उदारं मनोहरम् । कमिव । विधुमिव । किंभूतं विधुम् ।
विकटा विकराला विधुन्तुददन्तास्तैर्दलनेन पीडनेन गलितामृतधारा यस्मिन् । अनेन
भवद्विरहेणानवरतं रुदत्या मुखमिन्दुकान्ति बिभर्तीत्याशयः । असितवर्णमभूदित्यर्थः ।
अनोपमालंकारः ॥५॥ अपि च । विलिखतीति । हे कृष्ण, सा मत्सखी रहसि एकान्ते
कुरङ्गमदेन भवन्तं विलिखति । किंभूतं भवन्तम् । असमशरभूतं कुसुमशरतामापन्न-
म् । वामेव दुर्लभवात् वाहकत्वेन कुसुमशरोऽयमिति बुद्ध्या । किं कृत्वा विलिखति ।
 
शयनीयं पुष्पशय्यां करोति रचयति । कीदृशम् । अनल्पविलासकलायां बहुतरक्रीडा-
कलायां कमनीयं काङ्क्षणीयम् । न दैवस्य गतिशीतुं शक्यते । को वेदाकस्मादेव भवाना-
गच्छतीत्याशयेन कुसुमशय्यास्था त्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः । किमिव करोति ।
कुसुम विशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्या तत्र तत्स्वरूपं
व्रतमिव । तव परिरम्भसुखाय तवालिङ्गनजन्यसुखप्राप्तये करोति । 'तल्पं च शयनी ये
स्यात्तुल्यवृन्दकलत्रयोः' इति विश्वः । एतैस्त्रिभिः पदैरुद्वेगाख्या प्रपञ्चावस्था कथिता ।
तल्लक्षणं प्रागेवोक्तम् ॥ ४ ॥ वहतीति । सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति
धारयति । कीदृशम् । वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जल.
धरौ मेघौ यत्र तादृशम् । अत्र निरन्तराषित्वेन नेत्रयोर्जलधरत्वेन निरूपणम् । ।
कमिव । विधुमिव । कीदृशं विधुम् । विकटा: कराला विशाला वा ये विधुन्तुदस्य राहो-
र्दन्तास्तैर्दलनं खण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम् । अत्र मुखय
विधुना नेत्रजलस्य चामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या । 'विकट: सुन्दरे प्रोक्तो
विशालविकरालयोः' इति विश्व: । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः' इत्यमरः ।
इयं चोन्मादाख्या सप्तमावस्था । तदुक्तं शृङ्गारतिलके – 'श्वासः प्रणोदनोत्कम्पवसुधाश्ले-
षणैरपि । व्यापारो जायते यत्र स उन्माद: स्मृतो यथा ॥' इति ॥ ५ ॥ किंच
विलिखतीति । रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशम् । असम-
शरभूतं कामस्वरूपिणं तव करे नवचूतं शरं निधाय तवाध: आसनस्थाने मकरं निधाय
 
१ 'वलितविलोचनजलधरम्' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri