This page has been fully proofread once and needs a second look.

सर्गः ४] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
अविरलनिपतितमदनशरादिव भववनाय विशालम् ।

स्वहृदयमर्मणि वर्म करोति सजलनलिनीदुलजालम् ॥ सा वि० ३ :

 
कुसुम विशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
 

व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ सा वि० ४
 

 
कामशरभीत्येव । यथा त्वामन्तरा स्थितायां ते कामशरास्त्वय्येव पतन्ति न तस्या-

मिति बुद्ध्येति भावः । किं विशिष्टा सा । तव विरहे सति दीना दैन्यमाप्ता । इति ध्रुवः ॥

अत्रोत्प्रेक्षालंकारः । किं किं करोति तत्कर्माह । चन्दनं निन्दविति चन्दनस्य निन्दां

करोति । स्मराहाह्लादकत्वाद्विपक्षपक्षमाश्रितमिवाभातीति । तत एव इन्दुकिरणमनुखेदं

विन्दति लभते । कथम् । अधीरं यथा भवति तथा । अधीरमिति चन्दनविशेषणं वा ।

<error>
अधिकं </error><fix>अधिकम्</fix>ईरयति प्रेरयति कामशरानिति निन्दार्थः । अपि च । मलयानां व्यालनिवा-

सानां समीरं गरलमिव कलयति । केन हेतुना । व्यालनिलय मिलनेन व्यालनिलयानां

व्यालनिवासानां चन्दनानां मिलनेन सङ्गात् । अत्र रूपकोत्प्रेक्षाविरोधालंकाराः ॥२॥

ध्यानादेकतामापन्नत्वं प्रकटयति -- <pratika>अविरलेति । </pratika>सा सजलनलिनीदलजालं स्वहृदय-

मर्मणि वर्म करोति । किंभूतं तत् । विशालम् । उत्प्रेक्षते । अविरलनिपतितमदन-

शराद्भवदवनायेव । अविरलं निपतितं निपातो येषां ते च ते मदनशराश्च । जातावे-

कवद्भावादेकवचनम् । त्वय्यासक्ततया त्वयि मृतेऽहमेव मृतेति हृदय मर्मत्वं त्वय्येव

विधाय भव दवनायेति युक्तम् । स्वहृदयमर्मणि भवदवनाय भवद्रक्षणाय सजलनलिनीद-

लजालं पिधानमिव करोति हृदयान्मा निरगादिति बुद्ध्येति युक्तिलेशः । उत्प्रेक्षालंकारः

॥३॥ <pratika>कुसुमेति । </pratika>सा कुसुमशयनीयं कुसुमशय्यां करोति । किंभूतं कुसुमशयनीयम् ।
 
-
 

 

 
निन्दति । अथ च इन्दुकिरणमनु लक्षीकृत्याधीरमनल्पं खेदं दुःखं विन्दति प्राप्नोति । मल-

यसमीरं मलयपर्वतसंबन्धिनं वातं व्यालनिलय मिलनेन व्यालानां सर्पाणां निलयो

निवासश्चन्दनवृक्षस्तस्य मिलनेन संसर्गेण गरलमिव विषमिव कलयति मन्यते । चन्द -
-
नवृक्षस्थितैः सर्पैः पीतोद्गीर्णाः एते मलयजवायवोऽत एव विषमयाः कथमन्यथा शरी-

रसंपर्कादेव मूर्च्छा मे जनयन्तीति मन्यत इति भावः । कुतस्तथा मन्यत इत्यतो हेतुगर्भ-

विशेषणमाह -- <pratika>दीनेति । </pratika>दीना दुःखिता । तथा च दुःखितस्य सुखहेतुरपि दुःखायैव

भवतीति भावः । पुनः कीदृशी । भावनया ध्यानेन त्वयि लीना मग्ना । कस्मादिव ।

मनसिजस्य कामस्य ये विशिखा बाणास्तद्भयादिव । '"व्यालो भुजङ्गमे प्रोक्तः श्वापदे दुष्टद-
न्तिनि'

न्तिनि"
इति विश्वः । '"गरलं तु विषे माने गरले तृणपूरके'" इति च ॥ २ ॥ <pratika>अविरलेति ।
</pratika>
सा स्वहृदयरूपमर्मस्थाने विशालं सजलनलिनीदलजालं जलसहितं कमलिनी पत्रसमूहं

वर्म
कवचं करोति । किमर्मिव । अविरलं यथा स्यादेवं निपतितो यो मदनशरः काम-

बाणस्तस्माद्भवदवनाय भवतो रक्षणायैव । तस्या हृदये त्वं सर्वदा तिष्ठसि, अतोऽविरत-

निपतद्भिर्मदनशरैस्ते पीडा मा भूदिति पद्मिनी पत्रैस्ते सन्नाहमिव सा करोतीति भावः ।

केचित्तु -- कीदृशं वर्मं । अविरलनिपतितमदनशरावनाय स्वरक्षणाय भवदिव संपद्यमान-

मिवेति व्याकुर्वन्ति । '"अवनं रक्षणे प्रीतौ '" इति विश्वः ॥ ३ ॥ <pratika>कुसुमेति । </pratika>सा कुसुम-
८ गीत●
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri