This page has not been fully proofread.

सर्गः ४] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
अविरलनिपतितमदनशरादिव भववनाय विशालम् ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदुलजालम् ॥ सा वि० ३ :
कुसुम विशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
 
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ सा वि० ४
 
कामशरभीत्येव । यथा त्वामन्तरा स्थितायां ते कामशरास्त्वय्येव पतन्ति न तस्या-
मिति बुद्ध्येति भावः । किं विशिष्टा सा । तव विरहे सति दीना दैन्यमाप्ता । इति ध्रुवः ॥
अत्रोत्प्रेक्षालंकारः । किं किं करोति तत्कर्माह । चन्दनं निन्दवि चन्दनस्य निन्दां
करोति । स्मराहादकत्वाद्विपक्षपक्षमाश्रितमिवाभातीति । तत एव इन्दुकिरणमनुखेदं
विन्दति लभते । कथम् । अधीरं यथा भवति तथा । अधीरमिति चन्दनविशेषणं वा ।
अधिकं ईरयति प्रेरयति कामशरानिति निन्दार्थः । अपि च । मलयानां व्यालनिवा-
सानां समीरं गरलमिव कलयति । केन हेतुना । व्यालनिलय मिलनेन व्यालनिलयानां
व्यालनिवासानां चन्दनानां मिलनेन सङ्गात् । अत्र रूपकोत्प्रेक्षाविरोधालंकाराः ॥२॥
ध्यानादेकतामापन्नत्वं प्रकटयति — अविरलेति । सा सजलनलिनीदलजालं स्वहृदय-
मर्मणि वर्म करोति । किंभूतं तत् । विशालम् । उत्प्रेक्षते । अविरलनिपतितमदन-
शराद्भवदवनायेव । अविरलं निपतितं निपातो येषां ते च ते मदनशराश्च । जातावे-
कवद्भावादेकवचनम् । त्वय्यासक्ततया त्वयि मृतेऽहमेव मृतेति हृदय मर्मत्वं त्वय्येव
विधाय भव नायेति युक्तम् । स्वहृदयमर्मणि भवदवनाय भवद्रक्षणाय सजलनलिनीद-
लजालं पिधानमिव करोति हृदयान्मा निरगादिति बुद्ध्येति युक्तिलेशः । उत्प्रेक्षालंकारः
॥३॥ कुसुमेति । सा कुसुमशयनीयं कुसुमशय्यां करोति । किंभूतं कुसुमशयनीयम् ।
 
-
 

 
निन्दति । अथ च इन्दुकिरणमनु लक्षीकृत्याधीरमनल्पं खेदं दुःखं विन्दति प्राप्नोति । मल-
यसमीरं मलयपर्वतसंबन्धिनं वातं व्यालनिलय मिलनेन व्यालानां सर्पाणां निलयो
निवासश्चन्दनवृक्षस्तस्य मिलनेन संसर्गेण गरलमिव विषमिव कलयति मन्यते । चन्द -
नवृक्षस्थितैः सर्पैः पीतोद्गीर्णाः एते मलयजवायवोऽत एव विषमयाः कथमन्यथा शरी-
रसंपर्कादेव मूर्च्छा मे जनयन्तीति मन्यत इति भावः । कुतस्तथा मन्यत इत्यतो हेतुगर्भ-
विशेषणमाह — दीनेति । दीना दुःखिता । तथा च दुःखितस्य सुखहेतुरपि दुःखायैव
भवतीति भावः । पुनः कीदृशी । भावनया ध्यानेन त्वयि लीना मना । कस्मादिव ।
मनसिजस्य कामस्य ये विशिखा बाणास्तद्भयादिव । 'व्यालो भुजङ्गमे प्रोक्तः श्वापदे दुष्टद-
न्तिनि' इति विश्वः । 'गरलं तु विषे माने गरले तृणपूरके' इति च ॥ २ ॥ अविरलेति ।
सा स्वहृदयरूपमर्मस्थाने विशालं सजलनलिनीदलजालं जलसहितं कमलिनी पत्रसमूहं
व कवचं करोति । किमर्धमिव । अविरलं यथा स्यादेवं निपतितो यो मदनशरः काम-
बाणस्तस्माद्भवदवनाय भवतो रक्षणायैव । तस्या हृदये त्वं सर्वदा तिष्ठसि, अतोऽविरत-
निपतद्भिर्मदनशरैस्ते पीडा मा भूदिति पद्मिनी पत्रैस्ते सन्नाहमिव सा करोतीति भावः ।
केचित्तु—कीदृशं वर्मं । अविरलनिपतितमदनशरावनाय स्वरक्षणाय भवदिव संपद्यमान-
मिवेति व्याकुर्वन्ति । 'अवनं रक्षणे प्रीतौ ' इति विश्वः ॥ ३ ॥ कुसुमेति । सा कुसुम-
८ गीत●
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri