2022-10-18 04:14:03 by ambuda-bot
This page has not been fully proofread.
६४
गीतगोविन्दकाव्यम्
चतुर्थः सर्गः ४ ।
स्निग्धमधुसूदनः ।
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्धान्तं माधवं राधिकासखी ॥ १ ॥
कर्णाटरागैकतालीतालाभ्यां
[ सर्गः ४
गीयते ॥ प्र० ८ ॥
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ।
माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ।
सा विरहे तव दीना ॥ ध्रुवम् ॥ २ ॥
मधुमथनं हृदि कृत्वा परं जयदेवीये मातौ वरम् ।
तनुते धातुं श्रुतिसुखकरं कुम्भो नृपशतवन्द्यश्विरम् ॥
इदानीं तयोः पृथक्कामावस्थां निरूप्य संयोजयितुमिच्छुर्दूतीयोगं निरूपयति-
यमुनातीरवानीरेति । राधिकासखी माधवं प्राह । किंविशिष्टं माधवम् । प्रेम-
भरेण स्नेहोद्रेकेणोद्भ्रान्तमुद्विग्नचित्तम् । पुनः किंभूतम् । यमुनातीरस्थे वानीरनिकुजे
चेतसनिकुञ्जे मन्दं निरुत्साहं यथा स्यात्तथा आस्थितमासीनम् । अथवा अमन्दमिति
वचन विशेषणम् । अतिशयव्याकुलां राधां दृष्ट्वा अमन्दं सवेगमाह । पथ्यावक्रं छन्दः
'युजोर्जेन स' इति । पूर्वोक्तमेव स्पष्टयति । अत्र गीते विरहोत्कण्ठिता नायिका
वर्णनीया 'नायिका लक्षणैर्युक्ता गीतकाव्येषु दर्शिता । एकैव नायिका वापि हरमू-
तिरिवाष्टधा । वाससज्जा समुत्कण्ठा स्वाधीनभर्तृका तथा । कलहान्तरिता वापि
विप्रलब्धाभिसारिका । खण्डिता प्रोषिता चैव नायिकाश्चाष्ट संमताः ।' तत्र समु
त्कण्ठितालक्षणं भरते– 'यस्याः समुचितेऽप्यहि प्रवासी नैति वल्लभः । सा स्मरान-
लसंतप्ता विरहोत्कण्ठिता मता ॥ १ ॥ निन्दतीति । पूर्वं ध्रुवपदं व्याक्रियते -
सा विरहे इति । हे माधव, सा राधा भावनया त्वयि लीना त्वद्ध्यानेन
वन्मयत्वं प्राप्ता इति बुद्ध्या त्वयि लीनेति । लामन्तरा स्थिता । उत्प्रेक्षते ।
पूर्वसर्गे कृष्णस्थ विरहावस्था वर्णिता । अत्र तु राधायास्तापमाह – यमुनेति ।
राधिकायाः सखी माधवं कृष्णं वक्ष्यमाणमुवाच । राधिकेत्यत्रानुकम्पायां कः । कीदृशं
कृष्णम् । यमुनातीरवानीरनिकुञ्जे वेत्रलताच्छन्न प्रदेशे मन्दं स्वैरमास्थितमासीनम् । तत्र
हेतुगर्भविशेषणमाह - प्रेमेति । प्रेमभरेण राधिकाविषयस्नेहाधिक्येनोद्भ्रान्तमुद्विग्नम् ।
तथा च प्रेमभरेण ध्यानपरम्परया तां साक्षात्कृत्य तदन्त्रेषणं विहाय लतागृहस्थित मिति
भावः । 'अथ वॆतसे । रथाभ्रपुष्पविदुलवेत्रवानीरवञ्जलाः' इत्यमरः
'मन्दः खले
मन्दगते मूर्खे स्वैरिणि रोगिणि' इति विश्वः ॥
१ ॥ निन्दतीति । गीतस्यास्य कानड-
रागः एकतालीतालश्च । गीतार्थस्तु हे माधव, सा राधा तव विरहे त्वद्विषे चन्दनं
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri