This page has been fully proofread once and needs a second look.

संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सु[^१]धा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥रे
 
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 
किंभूते । सुधाकरे सुधादीनां सारे । वा सुधायाः सारे । पुनः किंभूताः । वंशोच्चर-
द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं
तत्र कृतवधानं याभिस्तास्तथा ताश्च ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि
स्वस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव ।
तत्र दत्तावधानत्वात् वल्गुस्वने प्रियकटाक्षादपि प्रियत्वादित्यर्थः । किंभूतस्य मधु-
सूदनस्य । तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः ।
विलोलश्चासौ मौलिश्च । विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा ।
तिर्यकण्ठश्चासौ विलोलमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरःकिरी-
टयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे
पर्यवसानम् । शीर्ष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं
वृत्तम् । रूपकमलंकारः ॥ १६ ॥
रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः ।
आभोगान्ते तथा पाटस्वरैः पद्यगणाञ्चितः ॥
शृङ्गाररससंपूर्णकृष्णकेलिविराजितः ।
मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥
श्रीगोविन्दपदारविन्दमकरन्दास्वादचञ्चद्द्विरे-
फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना ।
श्रीमत्कुम्भनृपेण कॢप्तविवृतौ श्रीगीतगोविन्दके
सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः ॥
इति मुग्धमधुसूदनहंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥
इति श्रीगुर्जरधरित्रीपराजयप्रतापशोषिताशेषयवनपल्वलेन
राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्दविवरणे
मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 
अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-
ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतर्कोक्तिषु ।
मच्चेतो मुरवैरिसद्गुणसुधासिन्धाविहानुक्षणं
सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥
 
[^१.] "मृदुस्यन्दं" इति पाठः ।