This page has been fully proofread once and needs a second look.

सर्गः ३] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ
 
सु[^१]धा-

सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
रे
 
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 

 
किंभूते । सुधाकरे सुधादीनां सारैरे । वा सुधायाः सारे । पुनः किंभूताः । वंशोच्चर-

द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं

तत्र कृतवधानं याभिस्तास्तथा ताश्च ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि

स्वस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव ।

तत्र दत्तावधानत्वात् वल्गुस्वने प्रियकटाक्षादपि प्रियत्वादित्यर्थः । किंभूतस्य मधु-

सूदनस्य । तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः ।

विलोलश्चासौ मौलिश्च । विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा ।

तिर्यकण्ठश्चासौ विलोलमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरः किरी-

टयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे

पर्यवसानम् । शीर्ष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं

वृत्तम् । रूपकमलंकारः ॥ १६ ॥
 

रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः ।

आभोगान्ते तथा पाटस्रैः पद्यगणाञ्चितः ॥
शाररस

शृङ्गाररस
संपूर्ण कृष्ण केलि विराजितः ।

मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥

श्रीगोविन्दपदार विन्द विन्दमकरन्दा खास्वादचञ्च द्द्विरे-

फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना ।

श्रीमत्कुम्भनृपेण क्लृकॢप्तविवृतौ श्रीगीतगोविन्द के
 

सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः ॥

इति मुग्धमधुसूदन हंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥

इति श्रीगुर्जर धरित्रीपराजयप्रतापशोषिताशेषयवनपल्वलेन

राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्द विवरणे

मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 

 
अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-

ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतर्कोक्तिषु ।
मञ्च

मच्चे
तो मुरवैरिसद्गुणसुधा सिन्धा विहानुक्षणं
 

सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया ॥

इति श्रीमहामहोपाध्याय
श्री
श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां

गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥
 
W
 

 
[^
'.] "मृदुस्यन्दं'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri