This page has not been fully proofread.

सर्गः ३] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ
 
सुधा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 
किंभूते । सुधाकरे सुधादीनां सारै । वा सुधायाः सारे । पुनः किंभूताः । वंशोच्चर-
द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं
तत्र कृतवधानं याभिस्तास्तथा ताश्च ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि
स्वस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव ।
तत्र दत्तावधानत्वात् वल्गुखने प्रियकटाक्षादपि प्रियवादित्यर्थः । किंभूतस्य मधु-
सूदनस्य । तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः ।
विलोलश्चासौ मौलिश्च । विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा ।
तिर्यकण्ठश्चासौ विलोलमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरः किरी-
टयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे
पर्यवसानम् । शीष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं
वृत्तम् । रूपकमलंकारः ॥ १६ ॥
 
रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः ।
आभोगान्ते तथा पाटस्खरैः पद्यगणाञ्चितः ॥
शाररस संपूर्ण कृष्ण केलि विराजितः ।
मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥
श्रीगोविन्दपदार विन्द मकरन्दा खादचञ्च द्विरे-
फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना ।
श्रीमत्कुम्भनृपेण क्लृप्तविवृतौ श्रीगीतगोविन्द के
 
सङ्गीतक्रमदीपिकाखसुरयं सर्गस्तृतीयो गतः ॥
इति मुग्धमधुसूदन हंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥
इति श्रीगुर्जर धरित्रीपराजयप्रतापशोषिताशेषयवनपल्वलेन
राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्द विवरणे
मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
 
अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-
ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतकर्कोक्तिषु ।
मञ्चतो मुरवैरिसद्गुणसुधा सिन्धा विहानुक्षणं
 
सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया ॥
इति श्रीमहामहोपाध्याय
श्री शंकर मिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥
 
W
 
१ 'मृदुस्यन्दं' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri