This page has been fully proofread once and needs a second look.

सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ १५ ॥

तिर्य[^१]क्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चर-
[^२]द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः ।
 
विरहव्याधिः कथं वर्धते । समाधौ व्याधेरनुद्भवात् । प्रियासङ्गे विरहानुपपत्तेश्च ।
इतीति किम् । तानि स्पर्शसुखानि सन्ति । अप्रत्यक्षायामपि तस्यां ध्यानवशादनुभूय-
मानानीव । एवं सर्वत्र । अपि च तरलाश्चञ्चलाः स्निग्धाः प्रेमार्दा दृशोर्विभ्रमा
विलासास्त एव । वक्त्राम्बुजसौरभं तदेव । अपि च सुधास्यन्द्यमृतस्रावी गिरां
वक्त्रिमा वैदग्ध्यविशेषः स एव । अपि च बिम्बाधरमाधुरी बिम्बाधरसौकुमार्यं तदेव ।
यत्पूर्वानुभूतं तदेवेति विषयलाभेऽपि विरहो वर्धत इति तस्य वामता । शार्दूलविक्री-
डितं छन्दः । समुच्चयोऽलंकारः । रसादि प्रसिद्धम् ॥ १५ ॥ इदानीं सर्वार्थसंवरण-
व्याजेनाशिषमाशास्ते -- <pratika>तिर्यक्कण्ठेति ।</pratika>मधुसूदनस्य कटाक्षोर्मयो वो युष्मभ्यं क्षेमं
ददतु । ऊर्मयो वेगा लेखा वा । कटाक्षाणामूर्मयः कटाक्षोर्मयः । "ऊर्मिः पीडालवो-
त्कण्ठाभङ्गिप्राकाश्यवीचिषु । वस्त्रसंकोचलेखा याम्" इति । किंलक्षणाः । राधामुखेन्दौ
प्रेम्णा कन्दलिता उपरागं गमिताः । "कन्दलं तु नवाङ्कुरे । कलध्वनावुपरागे च" इति ।
किंविशिष्टे मुखेन्दौ । संमुग्धे मधुरे । सम्यक् मुग्धं संमुग्धं संमुग्धं च तन्मधुरं च तत्त-
स्मिन् । रम्ये नवप्रिये । "मुग्धं मूर्खे तथा रम्ये" इति । "मधुरस्तु प्रिये स्वादौ" इति । पुनः
 
राधो न वा स्मरस्य, किं तु तदङ्गस्पर्शादिविषयालाभाच्चालं त्वच्चेतस्त्वां दुःखाकरोतीति
भावनया पुरःस्थितां मत्वाह -- <pratika>तानीति ।</pratika>स्पर्शसुखानि तदङ्गस्पर्शजन्यानि सुखानि
इदानीमनुभूयमानानि तान्येव पूर्वानुभूतान्येव एतेन त्वगिन्द्रियविषयलाभः
कथितः । दृशोर्नेत्रयोस्तरलाश्चञ्चलाः स्निग्धाः स्नेहगर्भा विभ्रमा विलासास्त एव ।
अनेन चक्षुर्विषयलाभ उक्तः । तस्या वक्त्राम्बुजसौरभं मुखपद्मसौरभं तदेव । अनेन
घ्राणस्य विषयप्राप्तिरुक्ता । गिरां तद्वचसां सुधास्यन्दी सुधाममृतं स्यन्दते स्रवतीत्ये -
वंशीलो वक्रिमा वक्रत्वमिदानीं श्रोत्रेण ग्राह्यमाणः स एत्र पूर्वानुभूत एव । अनेन
श्रोत्रेन्द्रियविषयसान्निध्यमुक्तम् । बिम्बाधरमाधुरी तस्या विम्बफलप्राययोरधरयोरोष्ठयोर्मा-
धुरी मधुरताधुना मयास्वाद्यमानैव पूर्वानुभूतैव । अनेन रसनेन्द्रियस्य विषयलाभ
उक्तः । इत्येवंप्रकारेण विषयासङ्गेऽपि स्वस्वविषयसंबन्धेऽपि मानसं यत्तस्यां राधायां
लग्नसमाधि तदेकाग्रं यदि । हन्तेति खेदे । तदा विरहव्याधिः कथं वर्धते । अपिशब्दो
विरोधाभासालंकारसूचनार्थः । बाह्येन्द्रियविषयासङ्गे समाधेरसंभवात् । बाह्येन्द्रियवृत्ति-
निरोधे सति मनस एकाग्रताया एव समाधिशब्दार्थत्वात् । तथा च तत्तदिन्द्रियाणां स्वस्वा -
भिमतविषयालाभे एव विरहः संभवति । मम च तत्तदिन्द्रियाणां विषयविच्छेदस्याभावा-
न्मनसस्तच्चिन्तनैकपरत्वात्तया सह विश्लेष एव नास्तीति कथं विरहजन्यव्याधिसंभव
इति भावः । "गन्धरूपरसस्पर्शशब्दाश्च विषया अमी" इत्यमरः ॥ १५ ॥
 
[^१.] अस्य श्लोकस्य व्याख्यानं रसमञ्जर्याख्यटीकादर्शपुस्तके नोपलभ्यते । [^२.] "द्गीत-
स्थान" इति पाठः.