2022-10-18 04:14:03 by ambuda-bot
This page has not been fully proofread.
सर्ग: ३] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्
सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा हशोर्विभ्रमा-
स्तकाम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
६१
त्ततया न क्रियते । तद्गतिस्तु पूर्वपदे दर्शितप्रायेति ॥ १३ ॥ इदानीं ध्यानमिलितां
राधां संभावयन्नाह - भ्रूचाप इति । हे तन्वि, भ्रूचापे निहित आरोपितः कटाक्ष
एव विशिखो बाणो मर्मव्यथां निर्मातु । यतश्चापारोपितबाणस्य मर्मवेधो युक्त एव ।
अपि च । कबरीभारोऽपि मारोद्यमं मारायोद्यमं करोतु नाम । यतः श्यामात्मा
कुटिलश्च । श्यामात्मनामन्तर्मलिनचित्तानां च मारणं स्वभाव एव । अपि च अयं
रागवान्बिम्बाधरो मोहं तनुताम् । अस्याप्येवंविधस्य मोहविधाने औचिती ।
परं तु तव सद्वृत्तः स्तनमण्डलः स मम प्राणैः कथं क्रीडति । इयमस्या नौचिती ।
यतः सदाचारवतां परप्राणविशसनं न क्कापि दृष्टमिति भावः । अत्र विरोधालंकारः ।
शार्दूलविक्रीडितं छन्दः ॥१४॥ इदानीं वक्रोक्त्या स्वगतत्वेन विरहवामतां वदति -
तानीति । हन्त इति खेदे । विषयासङ्गेऽपि मानसं चेत्तस्यां लग्नसमाधि तर्हि
।
स्यात्सक्तावंसप्रभेदयोः' इति विश्वः ॥ १३ ॥ संप्रति राधाङ्गविलसितान्येव स्मरणरू-
पाणि मां पीडयन्तीति तस्या एवोपालम्भनं करोमीत्याशयेन काममुपेक्ष्य तां च स्थिता-
मिव ज्ञात्वा राधां संबोध्याह - भ्रूचाप इति । भ्रूचापे भ्रूरूपे धनुषि निहितोऽपिँतो यः
कटाक्षविशिखः कटाक्षबाणो मर्मव्यथां मर्मपीडां निर्मातु करोतु धनुष्यारोपितस्य
बाणस्य परमर्मपीडनमेव धर्म इति तदुचितमेव । अथ च तक् कुटिलो वः श्याम
आत्मा स्वरूपं च यस्यैतादृशः कबरीभारोऽपि ग्रथितवेणी केशसंचयोऽपि मरोद्य
मारणायोद्योगं पराक्रमं करोतु । यद्वा मारस्य कामस्योद्यमं करोतु । योऽन्तर्मलिनः
कुटिलश्च भवति सोऽन्यमारणाय यतत इत्यपि नानुचितम् । अथ च हे तन्वि, अयं बिम्बा-
धरो बिम्बफलतुल्योऽधरो मोहं मूर्च्छा तनुतां तनोतु । कीदृशः । रागवान्रक्ततावि-
शिष्टः । इदमपि नानुचितम् । यतो यो रागवान्मात्सर्ययुक्तः स परमोहं करोत्येव ।
अयं तव सुवृत्तो वर्तुल: स्तनमण्डल: कुचविस्तारो मम प्राणैः कथं किमिति क्रीडति
प्राणग्रहणरूपां क्रीडां किमिति करोति । सद्वृत्तस्य सच्चरितस्य परप्राणग्रा हित्व मनुचितमिति
भावः । विरोधनामायमलंकारः । सद्वृत्तत्वरूपगुणस्य परप्राणग्रहणक्रियया विरोधकथ-
नात् । तदुक्तं काव्यप्रकाशे — ' विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः' इति ।
'विशिखस्तोमरे शरे' इति विश्वः । 'श्यामो निन्दितकृष्णयोः' इति धरणिः । 'आत्मा देहे
मनोब्रह्मस्वभावधृतिबुद्धिषु' इति विश्वः । 'बिम्बं फले बिम्बिकायाः प्रतिबिम्बेऽर्कमण्डले'
इति च । 'रागोऽनुरक्तमात्सर्ये' इति च । 'वृत्ते तु वर्तुलं वृत्तम्' इति शाश्वतः । 'कबरी
केशवेशः' इत्यमरः । 'मारो मृतौ विषेऽनङ्गे' इति विश्वः ॥ १४ ॥ ननु तस्यापि नाप-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri