This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ३
 
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
 

बाणा गुणः श्रवणपालिरिति स्मरेण ।

तस्यामनङ्गजयजङ्गमदेवताया-

मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
 
घो

 
षो
ऽलंकारः । अत्र मनसिजशरा मनो विध्यन्ति इति कर्मलेत्वे विवक्षिते यत्कर्तृत्वमुप-

न्यस्तं तदौचित्यचमत्कारितामाविष्करोति । यथा '"सान्वयं शोभते वाक्यमुचितैरेव

कारकै:
हैः
कैः । कुलाभरणमैश्वर्यमौदार्यं चरितैरिव'" इति ॥ १२ ॥ इदानीं राधायामेव स्मर-

शरावलित्वमारोपयन्नाह -- <pratika>भ्रूपल्लवमिति । </pratika>स्मरेण तस्यां इति अस्त्राण्यर्पितानि ।

किंभूतानि । निर्जितजगन्ति । निर्जितानि जगन्ति यैस्तानि । किंभूतायां तस्याम् ।

अनङ्गजयजङ्गमदेवतायाम् । अनङ्गस्य जयाय जङ्गमदेवतेव तस्याम् । इतीति किम् ।

भ्रूपलवं धनुः । अपाङ्गतरङ्गितानि कटाक्षा बाणा:
णाः । अपाङ्गतरङ्गितशब्देन कटाक्ष

उच्यते । तथा चोक्तम्–' -- "यद्गतागत विश्रान्तिवैचित्र्येण निवर्तनम् । तारकायाः कला-

भिज्ञास्तं कटाक्षं प्रचक्षते ॥" इति । श्रवणपालिः गुण इति । अत्रास्त्रशब्देनास्त्र विद्यासा-

धनस्थोपकरणान्युच्यन्ते । भ्रूपलवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती ॥ यथा - '- "मुख-
-

पङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी नवा । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥'
"
अत्र क्कावापि क्वाप्यलंकारद्वयत्रय सद्भावेऽपि <error>संसृष्टिसंकरनिरूपणम्</error><fix>संसृष्टिसङ्करनिरूपणं</fix> ग्रन्थविस्तरत्र स्तचि-
-
 

 
इति ध्वनितम् । '"सायकः शरखड्गयो: 'योः" इति विश्वः । '"अथास्त्रियाम् । धनुश्चापौ'" इत्यमरः ।

किंपै।पौरुषमित्यत्र द्वितीयव्याख्यानपक्षे '"किमः क्षेपे'" इत्यनेन निन्दायां समासः । '"आशुगो

मारुते बाणे'" इत्यमरः ॥ १२ ॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य तत्र

कोऽपराध इत्यत आह -- <pratika>भ्रूपल्लवमिति । </pratika>किमित्याक्षेपे । तस्यां राषाधायां स्मरेण कामेना-

स्त्राण्यर्पितानीति तर्कयामि । नन्वस्त्राणि वीरेण हस्ते स्थापयितुमर्पितानि न त्वन्यत्रेत्यत

आह -- निर्जितानि जगन्ति यैस्तानि । तथा च तैरेवास्त्रैर्जगत्त्रयं जित्वा तत्र स्थापितानीति

भावः । तर्ह्यन्यत्र किमिति न स्थापितानीत्यत आह - - <pratika>अनङ्गेति । </pratika>अनङ्गस्य कामस्य जङ्गम-

देवतायां गमनशीलदेवतायाम् । तथा च त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जात-

प्रयोजनानि तत्रैव स्थापितानीति भावः । देवतया यदस्त्रं दीयते तत्केनापि प्रतिहन्तुं न

शक्यत इत्यपि ध्वनितम् । कानि तान्यस्त्राणीत्यत आह - - <pratika>भ्रूपल्लव मिति ।</pratika> भ्रूपलवं तदेव

धनुः, अपाङ्गतरङ्गितानि कटाक्षस्य गतागतानि बाणा:णाः, श्रवणपालिः कर्णलताप्रान्ता एव

गुणो मौवींर्वी । नीलस्निग्धत्वाद्भुव: पभ्रुवः पल्लवत्वेन निरूपणम् । वक्रत्वाच्च धनुस्त्वेन निरूपणम् ।

अपाङ्गस्यात्यन्तमेभेदकत्वाद्वाबाणत्वेन निरूपणम् । श्रवणपाल्याश्च दीर्घत्वान्मौर्वीत्वेन निरूपणम् ।
'

"
अपाङ्गोऽप्यङ्गहीने स्यान्नेत्रान्ते नीलकेऽपि च'" इति विश्वः । '"पालि: कर्णलताये
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
ग्रे