2022-10-18 04:14:02 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्ग: ३
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
घोऽलंकारः । अत्र मनसिजशरा मनो विध्यन्ति इति कर्मले विवक्षिते यत्कर्तृत्वमुप-
न्यस्तं तदौचित्यचमत्कारितामाविष्करोति । यथा 'सान्वयं शोभते वाक्यमुचितैरेव
कारकै:
हैः । कुलाभरणमैश्वर्यमौदार्यं चरितैरिव' इति ॥ १२ ॥ इदानीं राधायामेव स्मर-
शरावलिलमारोपयन्नाह —भ्रूपल्लवमिति । स्मरेण तस्यां इति अस्त्राण्यर्पितानि ।
किंभूतानि । निर्जितजगन्ति । निर्जितानि जगन्ति यैस्तानि । किंभूतायां तस्याम् ।
अनङ्गजयजङ्गमदेवतायाम् । अनङ्गस्य जयाय जङ्गमदेवतेव तस्याम् । इतीति किम् ।
भ्रूपलवं धनुः । अपाङ्गतरङ्गितानि कटाक्षा बाणा:
। अपाङ्गतरङ्गितशब्देन कटाक्ष
उच्यते । तथा चोक्तम्–'यद्गतागत विश्रान्तिवैचित्र्येण निवर्तनम् । तारकायाः कला-
भिज्ञास्तं कटाक्षं प्रचक्षते ॥" इति । श्रवणपालिः गुण इति । अत्रास्त्रशब्देनास्त्र विद्यासा-
धनस्थोपकरणान्युच्यन्ते । भ्रूपलवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती ॥ यथा - 'मुख-
-
पङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी नवा । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥'
अत्र क्कापि क्वाप्यलंकारद्वयत्रय सद्भावेऽपि संसृष्टिसंकरनिरूपणम् ग्रन्थविस्तरत्र स्तचि-
-
इति ध्वनितम् । 'सायकः शरखड्गयो: ' इति विश्वः । 'अथास्त्रियाम् । धनुश्चापौ' इत्यमरः ।
किंपै।रुषमित्यत्र द्वितीयव्याख्यानपक्षे 'किमः क्षेपे' इत्यनेन निन्दायां समासः । 'आशुगो
मारुते बाणे' इत्यमरः ॥ १२ ॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य तत्र
कोऽपराध इत्यत आह—भ्रूपल्लवमिति । किमित्याक्षेपे । तस्यां राषायां स्मरेण कामेना-
स्त्राण्यर्पितानीति तर्कयामि । नन्वस्त्राणि वीरेण हस्ते स्थापयितुमर्पितानि न त्वन्यत्रेत्यत
आह— निर्जितानि जगन्ति यैस्तानि । तथा च तैरेवास्त्रैर्जगत्रयं जित्वा तत्र स्थापितानीति
भावः । तर्ह्यन्यत्र किमिति न स्थापितानीत्यत आह - अनङ्गेति । अनङ्गस्य कामस्य जङ्गम-
देवतायां गमनशीलदेवतायाम् । तथा च त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जात-
प्रयोजनानि तत्रैव स्थापितानीति भावः । देवतया यदस्त्रं दीयते तत्केनापि प्रतिहन्तुं न
शक्यत इत्यपि ध्वनितम् । कानि तान्यस्त्राणीत्यत आह - भ्रूपल्लव मिति । भ्रूपलवं तदेव
धनुः, अपाङ्गतरङ्गितानि कटाक्षस्य गतागतानि बाणा:, श्रवणपालिः कर्णलताप्रान्ता एव
गुणो मौवीं। नीलस्निग्धत्वाद्भुव: पलवत्वेन निरूपणम् । वक्रत्वाच्च धनुस्त्वेन निरूपणम् ।
अपाङ्गस्यात्यन्तमेदकत्वाद्वाणत्वेन निरूपणम् । श्रवणपाल्याश्च दीर्घत्वान्मौर्वीत्वेन निरूपणम् ।
'अपाङ्गोऽप्यमहीने स्यान्नेत्रान्ते नीलकेऽपि च' इति विश्वः । 'पालि: कर्णलताये
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri