This page has been fully proofread once and needs a second look.

सर्गः ३]] रसिकप्रिया-रसमञ्जर्याख्य टीकाद्वयोपेतम्
 
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय

क्रीडानिर्जित विश्व मूर्च्छितजनाघातेन किं पौरुषम् ।

तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशु[^१]ग-

श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १२ ॥
 

 
ध्यतेऽसावपह्नुतिः'" इत्यपह्नुतिरलंकारः । विप्रलम्भशृङ्गारो रसः ॥ ११ ॥ इदानीं स्मर-

मुपालभते - - <pratika>पाणाविति । </pratika>हे क्रीडा निर्जितविश्व काम, पाणौ अमुं चूतसायकं मा

कुरु । चापमपि मा रोपय मा सज्जं कुरु । यतः क्रीडयैव निर्जित विश्वस्य केयं सामग्री

नाम । अथ चेत्सामग्री तर्हि कस्योपरीत्याह । मूर्च्छितजनाघातेन किं पौरुषं कोऽयं

पराक्रमः । अथवा कुत्सितं पौरुषं किंपौरुषम् । तर्हि किं क्रियतामित्याह । यदर्थं मां

प्रहिणोषि तस्या एव मृगीदृशो मनोऽद्यापि मनागपि न संधुक्षते । अपि तु संधुक्षतां

नाम । किं विशिष्टं मनः । प्रेङ्खत्कटाक्षानलज्वालाजर्जरितम् । प्रेङ्खन्तो वल्गन्तो ये

कटाक्षा अर्थात्सपत्नीनां त एव अनलोऽग्निस्तस्य ज्वालास्ताभिर्जर्जरितम् । अथवा हे

मनसिज, तस्या एव मृगीदृशः प्रेङ्खत्कटाक्षानलज्वालाजर्जरितं मनः । अर्थान्ममैवा-

द्यापि न दीप्यते । अतो मृतमारणं कथं युक्तम् । शार्दूलविक्रीडितं छन्दः । आक्षे-

 
सर्पराजो वासुकिः । इयं कण्ठे कुवलयदलानां नीलोत्पलपत्राणां श्रेणिः पङ्क्तिः शैत्याद्धृता

न तु सा गरलद्युतिर्विषकान्तिः । इदं सर्वाङ्गे तापशान्त्यर्थं धृतं मलयजरसश्चन्द नधूलिर्न

तु भस्म विभूति: । अङ्गे लिप्तः प्रशिथिलचन्दनोऽपि विरहतापवशाहूद्धूलीभूत इति रजःपदेन

सूचितम् । तथा च बिसलतायां शैत्यदीर्घत्वादिदर्शनाद्वा वासुकिभ्रमात्, नीलोत्पलदलपकौ
ङ्क्तौ
श्यामत्वादिदर्शनादुरगभ्रमात्, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव युक्तो नेति

भावः । अयं च भ्रान्तिमानलंकारः '"सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्'" इति तल्लक्ष-

णम् । '"वितर्के किं किमूत च'" इत्यमरः । '"किं संबुद्धावुपोक्तौ ? च'" इति विश्वः ॥ ११ ॥

कुसुमायुधत्वेन प्रसिद्धो यः कामः स इमानेव चूतमञ्जरीरूपान्बाणान्धनुष्यारोप्य मां ताड-

यिष्यतीति शङ्कया पुनरपि दैन्यं करोति - - <pratika>पाणाविति । </pratika>हे मनसिज मदन, अमुं पुरः-

स्थितं चूतसायकमात्रपुष्परूपं बाणं पाणौ हस्ते मा कुरु । चापं धनुर्मा रोपय मौवींर्वीयुक्तं

मा कुरु । यद्वा चूतसायकं हस्ते मा कुरु । हस्ते चेत्करोषि तदानुंमुं सायकं चापे मारो-

पय । मा संघेधेहीत्यर्थः । अत्र मनसिजपदेन मन्मनसा जातस्य ते मत्संतापकारित्वमनु-

चितमिति ध्वनितम् । हे क्रीडानिर्जितविश्व क्रीडया लीलया निर्जितं विश्वं जगधेद्येन तादृश,

मूच्छितस्य मूर्च्छाछां प्राप्तस्य मादृशजनस्याघातेन प्रहारेण तव किं पौरुषम् । अपि तु न

किमपीत्यर्थः । यद्वा क्षेपे किंशब्दः । मूर्च्छितजनाघातेन तव किं पौरुषम् । कुत्सितं पौरुष-

मित्यर्थः । मूर्च्छितत्वे हेतुमाह - - <pratika>तस्या एवेति । </pratika>तस्या एव मृगीदृशो हरिणीदृशः

प्रेङ्खन्तः प्रसर्पन्तो ये कटाक्षास्त एवाशुगा बाणास्तेषां श्रेणिभिः पङ्गिक्तिभिर्जर्जरितं खण्डितं

मनो मनागपि न संधुक्षते न स्वस्थं भवति । तथा च तत्कटाक्षरूपबाणैस्त्वयाहं मूर्च्छितः

कृतः संप्रति मयि चूतमञ्जरी रूपसायकप्रहारं मा कुरु । मृतमारणं माचरे
ति
भावः । येन लीलयैव विश्वमपि जितं तस्य ते मूर्च्छितजनेषु प्रहारो यशोहानिकर
 
[^१
.
१ '
] "अनल'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri